Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
१३४
षोडशश्लोक्या
एवंविधा अपि क्रियातिशैथिल्यान्न बहुजनविश्वासस्थानमतोजघन्योत्सूत्र्यपेक्षया मध्यमोत्सूत्रिभ्यो दूरदेशवर्तित्वात् मध्यमोसूत्रिपार्श्ववर्तिनो न भवन्त्यतोऽनुक्ता अपि स्वस्वचेष्टितानुसारेण तारतम्यभाक्त्वान्मिथो बृहदन्तरा अपि जघन्योत्सूत्रिभ्यो ऽधिकाः सन्तो जघन्योत्सूत्रिणामेव पार्श्ववर्तितया व्यवहृता अवगन्तव्याः। यथाच्छन्दस्तु गृहीतमुक्ताऽपरापरोत्सूत्रभाषणतयाऽनवस्थितोऽप्यज्ञानान्निह्नववद् गाढक्रियो भवति । गाढक्रियत्वाञ्च बहुजनविश्वासस्थानमतो निह्नवपार्श्ववर्तितया व्यवहृतः। परं न्यून एव, न त्वधिकः । अत एव पार्श्वस्थादयश्चत्वारः स्वाश्रितं जनं प्रति भूयः क्रियाशैथिल्यकारणम्, स्तोकं चोत्सूत्रकारणं, स्वयं तादृस्वभावत्वात् । यथाच्छन्दस्तु स्वाश्रितं प्रति स्तोकं क्रियाशैथिल्यकारणं, भूयश्चोत्सूत्रकारणं, तस्य स्वयं तादृक्स्वभावत्वात् । निह्नवस्तु स्वाश्रितं जनं निह्नवस्वभावं जनयति, तारकस्वभावत्वात् तस्य। उक्तं चोत्सूत्रकन्दकुद्दाले
श्रितोऽत्राऽऽद्यश्चतुर्भेदः, प्रायः शैथिल्यकारणम् । स्वच्छन्दबाह्यौ स्वाच्छन्द्य-सङ्घबाह्यत्वकारणम् ।
[गु० वि०-१, श्लो० १६ ] एतद्वृत्तिः-"प्रथमे भेदपञ्चके आद्यश्चतुर्भेदः कुगुरुः पार्श्वस्थावसन्न-कुशील-संसक्तलक्षणः श्रितस्सन प्रायो-बाहुल्येन, शैथिल्यकारणम्-श्लथत्वहेतुः, उत्सूत्रहेतुः स्तोकं भवति । एतद् व्याख्यानं व्यवहारनयमधिकृत्याऽवसातव्यम् । निश्चयनयमधिकृत्य श्लथत्वस्याऽप्युत्सूत्रत्वात् । यतोऽसौ चतुर्भेदो घनतरं श्लथः, स्तो

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168