Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
मध्यमोत्सूत्रिनिदर्शनम्
व्याख्या - अस्थिरात्मा यथाच्छन्दो ज्ञेयः । यतस्तीर्थभीरुस्सन् स्थिरमुत्सूत्रं नो भाषते । ततस्तीर्थाद् बहिस्थः । अपिशब्दाऽभ्याहारात् बहिस्थोऽपि पार्श्ववर्त्यसौ भण्यते, अर्थात्तीर्थस्येत्यन्वयः । उत्पुत्रभाषणेऽस्थिरोऽनवस्थित आत्मा यस्यासौsस्थिरात्मा यथाच्छन्दः - प्रवचनप्रसिद्ध पार्श्वस्थादीनां मध्ये पञ्चमः, तीर्थ भीरुः- तीर्थाद्भयं मन्यमानः, ततः - तस्माद् बहिस्तिष्ठतीति बहिस्थः । पार्श्वे वर्तितुं शीलमस्येति पार्श्ववर्ती, असौ यथाच्छन्द इत्यक्षरार्थः । भावार्थस्त्वयं - यथाच्छन्दोऽस्थिरात्मा कुत इति वाक्यरूपविशेषणद्वारा हेतुमाह-यतः स्थिरमुत्सूत्रं नो भाषते । स्थिरोत्सूत्राऽभाषी कुतः ? इति विशेषणद्वारा हेतुमाह यतः किं भूतः ? तीर्थभीरुः तीर्थात् - साध्वादिसमुदायरूपात् भीरु-र्भयं - मन्यते, मा मे तीर्थताडनं भवत्वित्यभिप्रायवान् भवतीत्यर्थः । अयं भावः यो हि यस्माद्विभेति स तस्यारुचिविषयं समाचर्य तेन पृष्टः सन् तदपलपनात्, पुनस्तदकरणप्रतिज्ञातो वा स्वाचरिते स्थिरो न भवतीत्यतोऽपरापरोत्सूत्रभाषणशीलोऽप्युक्तोत्लूत्रपरित्यागाद्यथाच्छन्दोऽस्थिरात्मोच्यते । निह्नवस्तु नोक्तमुत्सूत्रं परित्यजतीति यथाच्छन्दाद्विपरीतः यस्माद्विपरीतस्तस्माततो भेदं दर्शयति तीर्थ बहिस्थोऽपि निह्नववन्न दूरवर्ती, किन्तु तीर्थ पार्श्वव सौ भण्यते । ननु संविज्ञपाक्षिकात् शेपाश्चत्वा रोऽपि पार्श्वस्थादयोऽस्थिरोत्सूत्रिणो भवन्त्येवेत्यतस्तान्विहाय यथाच्छन्द एवं कथमुक्तः ? इति चेत्, उच्यते- पावस्थादयो हि प्रायः क्रियामाश्रित्य भूयः शिथिलाः, स्तोकं चोत्सूत्रभाषिणः ।
"
१३३

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168