Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 141
________________ १३२ षोडशश्लोक्यो कोवेइ छेअवाई, जमालिनासं स नासिहिति ॥ १ ॥ 'त्ति । अत्र जमालिदृष्टान्तेन सामान्यतोऽन्येऽपि जिनाज्ञारसिकश्रीकालिकाचार्यप्रवर्तितचतुर्थीपर्युषणपरम्परापराङ्मुखास्तथा स्त्रीजिना!पधानादितपो - रजोहरणमुखवस्त्रिका-प्रतिक्रमण-चतुर्दश्यादिपरम्परापराङ्मुखाश्च निह्नवत्वेन दर्शिताः। विशेषतस्तु श्रीमल यगिरिविरचितायामष्टाविंशतिसहस्रप्रमाणायां श्रीआवश्यकवृत्तौ-'सत्तेए निह्नवा खलु' इत्यत्र-'खलुशब्दोऽत्र विशेषणे । किं विशिनष्टि ? उपधानादितपो न मन्यन्ते ते निह्नवा द्रष्टव्या' इति । अत्रोपधानादितपोनिषेधेन खरतरव्यतिरिक्ताः सर्वेऽपि गृहीताः। तेषां सर्वेषामप्युपधानतपोनिषेधाभिप्रायेणैव महानिशीथस्याप्यनङ्गीकारात् । खरतरस्तु आदिशब्दादाचाम्लादितपोविशेषनिषेधेनोपात्तो ज्ञातव्यः। आचाम्लादितपोविशेषनिषेधस्तु त्रिचतुरादिद्रव्यभेदभिन्नाऽनेकाऽऽचाम्लनिषेधनैव बोध्यः। तन्मते द्रव्यद्वयेनैवाऽऽचाम्लतपसः स्वीकारात् । ननु तर्हि दशव कथं दर्शिताः । तथाविधानों बहूनामपि सम्प्रति दृश्यमानत्वादितिचेदुच्यते-उक्तशेषाणां तूक्तोत्सूत्रसाम्यात् प्रायोऽत्रैवान्तर्भावात्, शटितसूक्ष्मकण्टकवद किश्चित्करत्वाच्चेत्यलं विस्तरेण इति । स्थिरमध्यमोत्सूत्री निदर्शितः। अथ मध्यमोत्सूत्रिणोऽस्थिरात्मलक्षणंद्वितीयभेदमाह अस्थिरात्मा यथाच्छन्दो, नोत्सूत्रं भाषते स्थिरम् । तीर्थभीरुस्ततस्तीर्थाद्, बहिस्थः पार्श्ववर्त्यसौ ॥१६॥

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168