Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 140
________________ मध्यमोत्सूत्रिनिदर्शनम् १३१ तर्हि मत्कृतः कुपक्षकौशिकाऽऽदित्यः पुरस्क्रियतामित्यन्वयः। कविसमयेन दिगशब्दो दशसङ्ख्यावाचकः, तया मितानाममीषां प्रागुक्तानां दिगम्बरादिपाशचन्द्रान्तानां व्यक्तितो-विस्तरतो जिज्ञासा भवेत्, तर्हि मत्कृतः कुपक्षकौशिकादित्यः-कुमतकौशिकसहस्रकिरणापरनामा ग्रन्थः पुरस्क्रियतामित्यक्षरार्थः । भावार्थस्त्वयं-यथाऽऽदित्योदये व्यक्तितो वस्तुस्वरूपं ज्ञायते कौशिकाश्चादृशीभवन्ति तथा कुपक्षकौशिकाऽऽदित्योदये हृदि धृतकुपक्षकौशिका अदृश्यीभूय वादपराङ्मुखीभवन्ति । तन्मतप्ररूपणास्वरूपं च व्यक्तितो ज्ञायते इत्यर्थः । न च जमाल्यादयः सप्त निह्नवास्तावदागमोक्तास्ते कथं नोक्ताः ? कथं चाऽऽगमानुक्ता अपि पूर्णिमीयक-खरतराद्याः अत्रोक्ताः ? इति शङ्कनीयम् । यतो 'यथाप्रतिज्ञं सतां प्रवृत्तिरिति न्यायात् प्रतिज्ञायामनन्तर्भावितत्वेन जमाल्यादयोऽत्र नोक्ताः। प्रतिज्ञा चाऽत्र अन्थे 'प्रवचनपीडाकारिण उत्सूत्रभाषिकण्टकानुद्धत्य कुण्ठिताऽsस्यान कुर्वे' इत्यादि प्ररूपणा(रूपा)ऽवसातव्या । सा च प्रतिज्ञोच्छिन्नसन्तान विषयिणी न सम्भवति, तस्य प्रवचनपीडाकारित्वासम्भवात, निर्विषयत्वेन तदुद्धारप्रयासादेवैफल्याञ्च । पूर्णिमीयकौष्ट्रिकादीनां तु सम्प्रति विद्यमानापत्यत्वेन प्रवचनपीडाकारिस्वसम्भवात्, सविषयत्वेन तदुद्धारप्रयासादेः साफल्याच्च तेषामेव प्रतिज्ञायामन्तर्भावो युक्तः । यच्चोक्तमेते न प्रवचनोक्तास्तदसत्यमेव, पूर्णिमीयकादीनामप्यागमोक्तत्वात्। उक्तं च सूर्यप्रज्ञप्तिनियुक्तौ-'आयरियपरम्परएण, आगयं जो उ आणुपुव्वीए।

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168