Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
मध्यमोत्सूत्रिनिदर्शनम्
१३५
कमुत्सूत्रप्ररूपको भवति । ततोऽस्य संसर्गोऽपि चारित्रिणो बहुतरश्लथत्व हे तुरल्पमुत्सूत्रप्ररूपणा हेतुः स्यात् । 'स्वछन्द बाह्यौ' स्वछन्दो नाम यथाच्छन्दो, बाह्यः सङ्घबाह्यस्तौ स्वाच्छन्द्यस्य सङ्घबाह्यत्वस्य च क्रमशः कारणम् । 'प्राय' इत्यत्रापि सम्बध्यते । यतो यथाच्छन्द-सङ्घबाह्यौ, गाढक्रियावपि त्यक्तचारित्रिगुरुकुलवासत्वेन षड्जीवनिकाय रक्षणायामकुशलत्वात् किञ्चिच्छिfret स्यातां । ततो गाढक्रिययोरेतयोस्संसर्गः चारित्रिणो घनतरं यथाच्छन्दत्व-सङ्घबाह्यत्वहेतुः स्यात् । अल्पं च शिथिलताहेतुर्भवति ।
संविज्ञपाक्षिकाच्छेषः, शिथिलः स्वं परानपि ।
यथाच्छन्दो घनं बाह्योऽतिघनं पातयेद् भवे ॥ [ गु० वि०१ श्लोकः-१६ ] एतद्वृत्ति:- " पूर्वोक्तचतुर्भेदशिथिलस्य मध्याकोsपि शिथिलः कदाचित् शुद्ध प्ररूपकत्वादिगुणालङ्कृतः सन् संविज्ञपाक्षिकः स्यात् । स च मोक्षपथपथिकत्वेन श्लाघ्यः । ततः संविज्ञपाक्षिकाच्छेषो व्यतिरिक्तः शिथिलः स्वं - आत्मानं, परानपि आत्मव्यतिरिक्तानपि भवे संसारे पातयेत् । यथाच्छन्दो घनोत्सूत्रयुक्तत्वात् घनं संसारे स्वपरानपि पातयेत् । बाह्य:सङ्घबाह्यः सङ्घाऽवज्ञाकारकत्वादतिघनं यथाच्छन्दादत्यर्थ, स्वं परानपि संसारे पातयेत् "। ननु षोडशश्लोक्यामस्यां यथाच्छन्दोऽपि तीर्थबाह्य उक्तः, उत्सूत्र कन्दकुद्दाले त्वनन्तरं निह्नव एव सङ्घबाह्यो दर्शितस्तत्कथमनयास्सङ्गतिरिति चेत् । उच्यते- आस्तां तावत् यथाच्छन्दो, निह्नववत् पार्श्वस्थोऽपि संविज्ञपाक्षिकव्यति

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168