Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
षोडशश्लोक्यां माज्ञावर्तीति दर्शितम् । पारिशेष्यपदं तु विवक्षिततपागच्छादन्यत्र सर्वत्रापि ज्ञानाद्यत्यन्ताभावहेतूत्सूत्रपददर्शनसूचकम् । उत्सूत्रवति समुदाये ज्ञानादिलेशस्याप्यसम्भवात् । उत्सूत्रं तु स्त्रीजिनार्चा-प्रतिक्रमणोपधानादिनिषेधेन प्रायः प्रवचनविदा प्रतीतमेव । अत एवाग्रेऽपि श्रीमहावीरतीथं यावत्तपोवद्भ्य एव चारित्रमिति ज्ञेयम् । उक्तमप्युत्सूत्रकन्दकुद्दालेऽष्टमविश्रामे'स्वावधि तच्च क्षेत्रेऽत्रा-ग्रतोप्येभ्यो भविष्यति ।
स्तोकेष्वप्येषु चारित्रं, वज्रदुःप्रसहादिवत्' ॥ [ गु० वि०८, श्लो० १५ ] अस्य वृत्ति,-"तच्चारित्रं स्वाऽवधि-निजावधिं यावत् अत्रास्मिन् क्षेत्रे-गूर्जरावनिप्रभृतिकेऽग्रतो एभ्यः-तपोवद्भ्यो भविष्यति । य एव एभिस्तपोवद्भिः दीक्षितास्त एव चारित्रिण इत्यर्थः इति बलादापन्नम् । एषु तपोवत्सु स्तोकेष्वपि चारित्रमस्ति । न चात्रेदमाशङ्कनीयं-यदपरं सर्वमप्यचारित्रं, एकस्मिन्नेवास्मिन् गच्छे चारित्रमिति कथं घटते ? 'वज्र'त्यादि । यथा प्रभुश्रीवयरस्वामिशिप्ये वज्र-वज्रसेने एकस्मिन्नपि चारित्रं अभूत्, तथा यथा दुःप्रसभाऽऽचार्येऽल्पपरिवारेऽपि चारित्रं भविष्यति, सथैष्वपि स्तोकेषु चारित्रं सिद्धमिति ।
गत्यागतिमिते क्षेत्रे-ऽत्रान्यगच्छे हि नाप्यते।
एभ्यो विशिष्टतैष्वेवा-शठत्वाप्तिबलात् ततः।। [गु० वि० श्लो० १६ ] अत्राऽस्मिन् क्षेत्रे गत्यागतिमिते-मालवक-देवगिरितिलङ्गप्रभृतिके हिर्यस्मात्कारणात्, अन्यगच्छे तपोवद्व्यतिरिक्ते,

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168