Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
उत्कृष्टोत्सूत्रिनिदर्शनम्
१३६ पघाताऽसम्भवात् । किन्तु व्यवहारनयाभिमतं सूत्रार्थस्यान्यथाऽऽख्यानं, तस्य प्रवचनोपघातकत्वात् । तच्च विषमिव यत्यस्माद् बहूपघातकं तत्तदपेक्षयोत्कटमिति धिया निह्नव-तत्पक्षपातिरूपमध्यमोत्कृष्टोत्सूत्र्यपेक्षया उपेक्षावचनं जघन्योत्सूत्रं, प्रवचनस्याल्पोपघातकत्वात् । अल्पोपघातकत्वं च तत्परम्पराया असम्भवेनाऽल्पकालीनत्वात् । निह्नवोत्सूत्रं तु बहूपघातकत्वाद् गरीयोऽपि मध्यममेव, तदपेक्षयाऽपि तत्पक्षपातिनोऽधिकोसूत्रस्य सम्भवात् । ननु कथमिति चेत् । उच्यते-यथा 'प्रत्युतोयं जनोत्सूत्र-स्थैर्यात्प्राच्याऽऽग्रहाच्च तदि'तिवचनात् प्रथममताऽऽकर्षकचन्द्रप्रभ-जिनदत्ताद्यपेक्षया जनोत्सूत्रस्थैर्यात् चन्द्रप्रभ-जिनदत्ताद्युक्तमहं प्रमाणीकरिष्याम्येवेत्येवंरूपेण चन्द्रप्रभजिनदत्तादिषु स्वाऽऽग्रहाच्चेति दोषद्वयेन पुष्टिकरणात्तदुक्तमार्गाङ्गीकारकारकाणामुत्कटमुत्सूत्रं भवति । तथा जैनमार्गस्थितानां स्थिरतया तत्पक्षपातकरणे पूर्वोक्तदोषद्वयपुष्टिकरणात् सन्मार्गस्थितानामपि सन्मार्ग एव सन्देहोत्पादनपूर्वकनिह्नवमार्गाभिमुखीकरणादिदोषसद्भावाञ्च ततोऽप्युत्कटमुत्सूत्रमतो निह्नवेभ्य उक्तलक्षणो निह्नवपक्षपाती दुरात्माऽवगन्तव्यः। ननु मिथ्यादृगनिह्नवदृशोरन्यतर स्तथा भवतु, परं तत्पक्षपात्यपि सम्यग्दृष्टिस्तावन्निह्नवाधिकः कथं सम्भवति ? तथात्वे च सम्यक्त्वस्य वैफल्याऽऽपत्तेरिति चेत् । मैवं-द्रव्यतो जैनमार्गस्थितानां भावतस्तु सम्यगदृग् १ मिथ्यादृग् २ निह्नवदृशां त्रयाणामपि स्थिरतया निह्नवपक्षपातित्वे सति जनोत्सूत्रस्थैर्य-तन्मताकर्षकचन्द्रप्रभ

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168