________________
मध्यमोत्सूत्रिनिदर्शनम्
१३१
तर्हि मत्कृतः कुपक्षकौशिकाऽऽदित्यः पुरस्क्रियतामित्यन्वयः। कविसमयेन दिगशब्दो दशसङ्ख्यावाचकः, तया मितानाममीषां प्रागुक्तानां दिगम्बरादिपाशचन्द्रान्तानां व्यक्तितो-विस्तरतो जिज्ञासा भवेत्, तर्हि मत्कृतः कुपक्षकौशिकादित्यः-कुमतकौशिकसहस्रकिरणापरनामा ग्रन्थः पुरस्क्रियतामित्यक्षरार्थः । भावार्थस्त्वयं-यथाऽऽदित्योदये व्यक्तितो वस्तुस्वरूपं ज्ञायते कौशिकाश्चादृशीभवन्ति तथा कुपक्षकौशिकाऽऽदित्योदये हृदि धृतकुपक्षकौशिका अदृश्यीभूय वादपराङ्मुखीभवन्ति । तन्मतप्ररूपणास्वरूपं च व्यक्तितो ज्ञायते इत्यर्थः । न च जमाल्यादयः सप्त निह्नवास्तावदागमोक्तास्ते कथं नोक्ताः ? कथं चाऽऽगमानुक्ता अपि पूर्णिमीयक-खरतराद्याः अत्रोक्ताः ? इति शङ्कनीयम् । यतो 'यथाप्रतिज्ञं सतां प्रवृत्तिरिति न्यायात् प्रतिज्ञायामनन्तर्भावितत्वेन जमाल्यादयोऽत्र नोक्ताः। प्रतिज्ञा चाऽत्र अन्थे 'प्रवचनपीडाकारिण उत्सूत्रभाषिकण्टकानुद्धत्य कुण्ठिताऽsस्यान कुर्वे' इत्यादि प्ररूपणा(रूपा)ऽवसातव्या । सा च प्रतिज्ञोच्छिन्नसन्तान विषयिणी न सम्भवति, तस्य प्रवचनपीडाकारित्वासम्भवात, निर्विषयत्वेन तदुद्धारप्रयासादेवैफल्याञ्च । पूर्णिमीयकौष्ट्रिकादीनां तु सम्प्रति विद्यमानापत्यत्वेन प्रवचनपीडाकारिस्वसम्भवात्, सविषयत्वेन तदुद्धारप्रयासादेः साफल्याच्च तेषामेव प्रतिज्ञायामन्तर्भावो युक्तः । यच्चोक्तमेते न प्रवचनोक्तास्तदसत्यमेव, पूर्णिमीयकादीनामप्यागमोक्तत्वात्। उक्तं च सूर्यप्रज्ञप्तिनियुक्तौ-'आयरियपरम्परएण, आगयं जो उ आणुपुव्वीए।