________________
१३०
षोडशश्लोक्या जिगमिषूणां यतिधर्मः श्रावकधर्मश्चेति द्वौ पन्थानौ पारगतैः प्रज्ञप्तौ। तत्र यतिधर्मे भावपूजैव, श्रावकधर्मे तु द्रव्यपूजापुरस्सरं भावपूजेति। तत्रोभयोरपि मार्गयोः जिनपूजायाः सम्यक्त्वकरणीयत्वात् संवररूपत्वम् । उक्तं च श्रीस्थानांगे'पंच संवरदारा पं० २०-संमत्तं १, विरती २, अप्पमादो ३, अकसातित्तं ४, अजोगित्तं ५, ति । व्याख्या-'संवरणं-जीवतडागे कर्मजलस्य निरोधनं संवरस्तस्य द्वाराणि-उपायाः संवरद्वाराणि, मिथ्यात्वादीनामाश्रवाणां क्रमेण विपर्ययाः सम्यक्त्वविरत्यप्रमादाऽकषायित्वाऽयोगित्वलक्षणा' इति । संवरस्तु विधिवादेनैव जिनोपदिष्टत्वात् साधूपदिष्ट एव । अन्यथा श्रावकधर्मोऽपि जिनाज्ञाबहिभूतः स्यात् । तथात्वे चात्यन्तमासमञ्जस्यम् । तस्मात् श्रावकधर्मवत्तदन्तर्गतत्वेन द्रव्यपूजाया अपि जिनोपदिष्टत्वमेव । तथा च सिद्धमनुमानमागमबाधितं हेतुश्च स्वरूपासिद्ध एव। ततो दृष्टान्तोऽप्यसङ्गत एव, तस्य चाऽऽश्रवरूपत्वात्। अन्यथा छद्मस्थप्रवृत्तिर्जिनाज्ञाबहिर्भूतैव स्यात् । तच्च सर्वजनप्रतीतिबाधितमित्यादिसुयुक्तिशस्त्र्या पाशचन्द्रव्याधपरिकल्पितपाशः कर्तनीयः । अथ दिगमात्रदर्शनार्थ दशानामप्येकैकमुत्सूत्रमादाय कुयुक्त्युद्भावनापूर्वकसुयुक्त्युद्भावनां सन्दर्य विस्तरजिज्ञासोदिशं दर्शयन्नाह
दिग्मितानाममीषां चेजिज्ञासा व्यक्तितो भवेत् ।
कुपक्षकौशिकाऽऽदित्यो, मत्कृतः क्रियतां पुरः ।। १३ ॥ व्याख्या-अमीषां दिग्मितानां यदि व्यक्तितो जिज्ञासा भवेत् ,