________________
मध्यमोत्सूत्रिनिदर्शनम्
तथाविधाSSचारः किं जिनकल्पिकाssचारः स्थविरकल्पिकाssचारो वा ? । आद्ये, व्युच्छिन्नत्वाद्युक्तमेव । द्वितीये, प्रत्यक्षबाधः । बकुशकुशीलचारित्रे वर्तमानानां सम्प्रति भूयसां स्थविराणां दृश्यमानत्वात् । एतेन साधूनामदर्शनसाधनमनुमानम किञ्चित्करमेव । अन्यथा श्रावकधर्मस्याप्यभावापत्तेः साधूपदेशादिमूलकत्वात्तस्येत्यत्र बहु वक्तव्यम्, ग्रन्थगौरवभयान्नोच्यत इत्यलं विस्तरेणेत्यादि सुयुक्तियष्ट्या कटुकटुः शिक्षणीयः ।
अथ वन्ध्यमते कुयुक्तिपूर्वक सुयुक्त्युद्भावनं तु प्रायः पूर्णिमीयकमतादिसमानमेवेति बोध्यम् । अत एवाऽस्य सङ्करमती - तिनामान्तरेण श्रीमहावीरद्वात्रिंशिकादौ निदर्शनमिति । पाशचन्द्रमते जिनपूजादिषु साधूपदेशनिषेधस्तत्र कुयुक्त्युद्भावना त्वेवं-अर्हद्द्रव्यपूजाविषयः साधूपदेशो न सम्भवति, जलकुसुमादिसचित्तविराधनादिसम्भवेन सावद्यत्वात् । प्रयोगस्तु द्रव्यपूजा साधूपदिष्टा न सम्भवति, सावद्यत्वात्, कृषिकर्मवदिति । तस्य कदाशयस्त्वेवं मेर्वादयो हि जैनप्रवचने यथास्थितिवादेन, प्ररूपिताः, द्रव्यपूजादयस्तु चरितानुवादेन, निरवद्यसाध्वाचा रायो हि विधवादेन चेति । तस्माद् द्रव्यपूजा चरितानुवादात् प्रवर्तते, न पुनः साधूपदेशेन विधिवादात् । अत एव स्वमतप्रबर्तनकाले प्रथमतस्तेन मृगजनपाशकल्पेन पाशेन स्वमतिकल्पनया पट्टकूलसम्बन्धीनि कृत्रिमकुसुमानि जिनपूजानिमित्तं प्रकाशितानि । ततश्च कियत्कालानन्तरं पुनरपि सचित्त कुसुमानीति प्ररूपितानि । तत्र सुयुक्त्युद्भावना त्वेवं मोक्षं प्रति
१२