________________
१२८
षोडशश्लोक्यां
सिद्धं तद्विपरीतं त्रिजगत्पूज्यस्याऽर्हतो द्रव्यस्तवार्हत्वमपि । तथा द्वितीयानुमानमपि सत्प्रतिपक्षितमागमबाधितं च । तथाहि - अर्हत्प्रतिमा यथोचितविधिनाऽऽराध्या भावार्हत्स्मृतिहेतुत्वात्, नामाद्वत् । एवं द्रव्यार्हन्नपि आराध्यभावहेतुत्वेन द्रव्यश्रुतवदाराध्यः साध्यः । आगमबाधितत्वं तु बहुप्रतीतं ग्रन्थगौरवभयाच्च सविस्तरं लिखितुमशक्यमितिकृत्वा दिग्मात्रदर्शनार्थं किश्चिदुपदर्श्यते तत्र तावत् साधुसाध्वीनामाराध्यत्वमर्हत्प्रतिमायाः श्री कल्पसूत्र सामाचारीगत 'विहारभूमिसि' त्तिपदादव सातव्यं । तद्व्याख्याने चैत्यगमनमित्याद्युक्तम् । एवं भगवत्यामपि विंशतितमशतके नवमोह शके- जङ्घाचारण-विद्याचारणश्रमणानां नन्दीश्वरादिषु चैत्यवन्दननिमित्तं गमनाऽऽगमनादि निगदितमिति बोध्यम् । श्रावकश्राविकादीनां त्वौपपातिकोपाङ्ग-ज्ञातधर्मकथाङ्गादिषु अम्बड- द्रौपद्यादिदृष्टान्तेन बोध्यम् । एवं देवादीनामपि जीवाभिगम - राजप्रश्नीयोपाङ्गादिषु विजयदेव-सूर्याभदेवादिदृष्टान्तेन प्रतीतमेव । एवं ज्ञानादिरहितत्वादिहेतवोऽपिबाधादिदोषपो (दो) पिता एवेत्यादि सुयुक्तिजलेन लुम्पाकमतमलक्षालनं विधेयमिति ।
अथ कटुकमते सम्प्रति साधुदर्शन निषेधस्तत्र कुयुक्त्युद्भावना त्वेवं- गूर्जराऽवनिप्रभृतिषु साधवो न दृष्टिपथमायान्ति, तथा विधाssचाराऽदर्शनात् । प्रयोगस्तु विप्रतिपन्नाः साधवो नभवन्ति, प्रवचनोक्ताऽऽचाराऽविधायकत्वात् इतरजनवदिति । तत्र सुयुक्त्युद्भावना त्वेवं- ' तथाविधाऽऽचारस्यादर्शनादित्यत्र '