________________
मध्यमोत्सूत्रिनिदर्शनम्
१२७
सक्कारे वा परिहाइस्सति' । एतत्सूत्रस्य वृत्तिर्यथा 'मायं कटुत्ति' । मायां कृत्वा मायां पुरस्कृत्य - माययेत्यर्थः, परिहास्यति -हीना भवि* ध्यति पूजा-पुष्पादिभिः, सत्कारो वस्त्रादिभिः । इदमेकमेव विव“क्षितमेकरूपत्वादिति । इदम् तु प्राप्तप्रसिद्धपुरुषापेक्षम् । शेषं* सुगम' मिति । इति स्थानाङ्गतृतीयस्थानकतृतीयोद्द ेशके [सू०१६८ ] अत्र यद्यत् कृतापलापहेतुस्तत्तन्निवारकमपीति न्यायात् पुरुषविशेषम् प्रतीत्य द्रव्यपूजा संयमरक्षा हेतुरपीति सूचितंबोध्यम् । तथा-
'अच्चणं रयणं चेक, वंदणं पूअणं तहा ।
इडीसक्कारसम्माणं, मणसा वि न पत्थए ||१|| 'ति पञ्चत्रिशत्तमोत्तराध्ययने । न चैतद वचनं निषेधपरं भविष्यतीतिशङ्कनीयं, वन्दनसत्कारश्राद्धादिसम्पत्साहचर्यात् पूजादिकर्तुर्भतस्य विधिसूचकत्वात् साधोर्निःस्पृहतासूचकत्वाच्च निःस्पृहस्यैव साधोः पूजाद्यत्वात् । अन्यथा सत्कारवन्दनादिनिषेधप्रसक्त्या सर्वागमविरोधेनाऽत्यन्तमासमञ्जस्यं स्यात् । किञ्च निःस्पृहस्य साधोर्भक्तेनाऽवश्यं पूजादि कर्तव्यमेवेति । ज्ञापकं तु सूत्रकृदङ्गवृत्तावप्युक्तं । तथाहि - 'यद्यप्यसौ पूजनीयः किमपि नेच्छति तथापि तेन तस्य परमार्थोपकारिणो यथाशक्त्या विधेय' मितिसूत्रकृदङ्गवृत्तौ पूजादिकमाश्रित्य श्रीगौतमेनोदकं प्रत्युक्तमितिबोध्यम् । तथा चाऽऽचाराङ्गनिर्युक्तिवृत्त्यादौ तीर्थकरगणधरादीन सुगन्धादिना सम्पूजयतो दर्शनशुद्धिरप्युक्तेति । तस्मात्प्रथमानुमानस्यानेकदोषजर्जरीकृतत्वेन स्वसाध्यसाधनाऽक्षमत्वात्
*