________________
१२६
षोडशश्लोक्या
मौनीत्यादिवद्वद्व्याघातः। तथा च त्यक्तसङ्गित्वादिति हेतुरन्वयव्यतिरेकाभ्यां व्यभिचार्येव। तत्राऽन्वयव्यभिचारो यथायो यस्त्यक्तसङ्गी स द्रव्यस्तवार्हो न भवतीति नास्ति, भगवत्येव व्यभिचारात् । एवं व्यतिरेकेऽपि-यो यो द्रव्यस्तवाहः स त्यक्तसङ्गी नास्तीति न, अर्हत्येव व्यभिचारात् । अर्हतो द्रव्यस्तवाऽहत्वेऽपि त्यक्तसङ्गित्वात् । अन्यथा लुम्पाकमताभिप्रायेण वेश्यादिजनस्यैव द्रव्यस्तवाऽहत्वापत्तः, तस्य त्यक्तसङ्गित्वाभावात् ।
एवं दृष्टान्तोऽपि साध्यविकलः, साधोरपि द्रव्यस्तवाऽर्हत्वात् । । उक्तं च श्रीस्थानाङ्गे–'सत्तहिं ठाणेहिं छउमत्थं जाणेज्जा, तं० पाणे अइवाइत्ता भवति १ मुसं वइत्ता भवति २, अदिन्नमादित्ता भवति ३, सदरूवरसगंधफरिसे आसाइत्ता भवति ४, पूजासकारे अणुव्हेत्ता भवति ५, इमं सावज्जंति पण्णवेत्ता पडिसेवित्ता भवति ६, णो जहावाई तहाकारी आवि भवति ७, त्ति [सू० ५५०]। अत्र वृत्त्येकदेशो यथा-'पूजा-सत्कारे-पुष्पाद्यर्चन-वस्त्राद्यर्चने अनुबृहयिता-परेण स्वस्य क्रियमाणस्य तस्याऽनुमोदयिता, तद्भावे हर्षकारीत्यर्थः । अत्र द्रव्यस्तवपुष्पाद्यर्चने सति हर्षकारित्वं हि छद्मस्थस्वरूषं सूचितं, परं द्रव्यस्तवाहत्वंत्ववश्यं सिद्धमेव । द्रव्यस्तवश्च साधूनां हितमपि। उक्तं च-'छ ट्ठाणाई अत्तवतो . हियाए सुहाए खमाए निस्सेसाए आणुगामियत्ताए भवंति, तं०परियाए परियाले तवे सुए लाभे पूयासक्कारे त्ति । तथा 'तिहिं ठाणेहिं माई मायं कटु नो आलोएज्जा जाव नो पडिवज्जेज्जा सं०-कित्ती वा मे परिहाइस्सति, जसो वा मे परिहाइस्सति, पूआ