________________
मध्यमोत्सूत्रिनिर्शनम्
रामृतसङग्रहो ऽवलोकनीयः । ननु तर्हि सम्यग्दृष्टिदेवतातोऽलभ्यस्याऽर्थस्य प्राप्तये लौकिकदेवत्वेन प्रतीतानां चामुण्डादीनामाराधनं कुर्वतां कथं लौकिक मिध्यात्वं ? इति चेत् । उच्यते-मिध्यात्वं तावद् वैपरीत्यश्रद्धानं । तच्च वस्तुविपर्ययबोधाद् भवति । वस्तुविपर्ययाऽवबोधस्तु जगदुदरवर्तिनः सर्वस्यापि शोभनार्थस्य सम्यगष्टिसाध्यत्वेऽपि तदसाध्यत्वपरिज्ञानात् सम्यग्दृशां प्रवचनाप्रतिकूलार्थप्रार्थनाया मिध्यादृष्टितोऽफलवत्त्वेऽपि फलवपरिज्ञानाच्च मिथ्यादृष्टिदेवताराधने भवत्येव । प्रवचनप्रतिकूलार्थप्रार्थनायां तु सुतरां मिथ्यात्वमित्यत्र बह्वयो युक्तय ग्रन्थगौरवभयान्नोच्यन्ते । इत्यलं विस्तरेणेत्यादिसुयुक्तिस्फटिकशिलातले त्रिस्तुतिकमदिरामृद्भाण्डं शतशः शकलीकार्य सकलैरिति । दिगम्बरादित्रिस्तुतिकान्तानां षण्णां विस्तरस्तूत्सूत्रकन्दकुद्दालादवसातव्यः । अथ लुम्पाकमते जिनप्रतिमा निषेधः । -तत्र कुयुक्त्युद्भावना त्वेवं अर्हन् द्रव्यस्तवार्हो न भवति, त्यक्तसङ्गित्वात् साधुवत् । एवमहत्प्रतिमापि त्यागिमूर्तित्वादपूज्या साधनीया। यद्वाऽर्हत्प्रतिमा नाराध्या अचेतनत्वात्, ज्ञानादिरहितत्वात् वा, काष्ठवदिति । तत्र सुयुक्त्युद्भावना त्वेवं अर्हति शक्रादिकृतां पूजामित्यर्हन्निति शब्दव्युत्पत्त्यैव त्रिजगत्पूज्यत्वं त्रिजगद्गुरोः सिद्धम् । तच्च समव्याप्तत्वाद्यथा भावतस्तथा द्रव्यतोऽपि । द्रव्यपूजाऽनुमोदनारूपत्वाद् भावपूजायाः । समव्याप्तत्वं तु य एव द्रव्यपूजार्हः, स एव भावपूजार्हः । य एव भावपूजाई:, स एव द्रव्यपूजार्हः । एवं च सति द्रव्यपूजाऽनर्हत्व साध्येऽहं
"
१२५
--