Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
मध्यमोत्सूत्रिनिदर्शनम्
१२१ श्राद्धश्राद्धीनामप्यागमे तीर्थनाथैः प्रणीतत्वात् । तथाहि-सेकिं तं लोउत्तरियं भावावस्सयं ? २ जण्णं समणो वा समणी वा सावओ वा साविआ वा तञ्चित्ते तम्मणे तल्लेसे तदभवसिए तदझवसाणे तदत्थोवउत्ते तदप्पियकरणे अण्णत्थ कत्थइ मणं अकुव्वमाणे उभओ कालं आवस्सयं करेंति'त्ति अनुयोगद्वारसूत्रे । एतद्वृत्त्येकदेशो यथा-'तदर्पितकरणः। करणानि-तत्साधकतमानि देह-रजोहरण-मुखवस्त्रिकादीनि, तस्मिन्नावश्यके यथोचितव्यापारनियोगेनाऽपितानि-नियुक्तानि तानि येन स, यथास्थानन्यस्तोपकरण इत्यर्थः । एतत्पदलेशस्य चूर्णिस्त्वेवं-तस्साह'णे जाणि ‘सरीररजोहरणमुहणंतगाइयाणि दव्वाणि किरियाकरणत्तणओ अप्पियाणि'त्ति । इत्याद्यनेकसुयुक्तिव्यक्तीकृतैरञ्चलमतदलनाचलतमसदुत्तरादिभिः प्राचीनाऽऽचार्यविरचितग्रन्थमुष्टिभिरञ्चलमतमुपमर्दनीयम् । अथ सार्धपूर्णिमीयकमतं तु पूर्णिमामाश्रित्य तावत् पूर्गिमीयकमतसमानमेवेत्यतस्तदपास्ताविदमप्यपास्तमेवेति बोध्यम् । 'सार्धपूर्णिमीयक' इत्यस्य नाम्नः सान्वर्थता पूर्णिमीयकभिन्नता च सम्यगाम्नायविद्विद्वद्भ्योऽवसातव्या । अथ त्रिन्तुतिकाऽपरपर्यायाऽऽगमिकमते श्रुतदेवतादिस्तुतिनिषेधस्तत्र कुयुक्त्युद्भावना त्वेवं-शासनश्रुतदेवतास्तुतिः सम्यक्त्वमालिन्यहेतुः, देवतास्तुतित्वात्, चामुण्डादिस्तुतिवदिति। यद्वा शासनश्रुतदेवताद्यपेक्षया प्रबलबलवत्तीर्थकरादिभ्यश्चऐहिकनिर्विघ्नता-श्रुताद्यर्थप्रार्थना न फलवती, तर्हि शासनश्रुतदेवतादिभ्यः कथमित्याशयेनाऽनुमानाऽन्तरं यथा-ऐहिकनिर्वि

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168