Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 137
________________ १२८ षोडशश्लोक्यां सिद्धं तद्विपरीतं त्रिजगत्पूज्यस्याऽर्हतो द्रव्यस्तवार्हत्वमपि । तथा द्वितीयानुमानमपि सत्प्रतिपक्षितमागमबाधितं च । तथाहि - अर्हत्प्रतिमा यथोचितविधिनाऽऽराध्या भावार्हत्स्मृतिहेतुत्वात्, नामाद्वत् । एवं द्रव्यार्हन्नपि आराध्यभावहेतुत्वेन द्रव्यश्रुतवदाराध्यः साध्यः । आगमबाधितत्वं तु बहुप्रतीतं ग्रन्थगौरवभयाच्च सविस्तरं लिखितुमशक्यमितिकृत्वा दिग्‌मात्रदर्शनार्थं किश्चिदुपदर्श्यते तत्र तावत् साधुसाध्वीनामाराध्यत्वमर्हत्प्रतिमायाः श्री कल्पसूत्र सामाचारीगत 'विहारभूमिसि' त्तिपदादव सातव्यं । तद्व्याख्याने चैत्यगमनमित्याद्युक्तम् । एवं भगवत्यामपि विंशतितमशतके नवमोह शके- जङ्घाचारण-विद्याचारणश्रमणानां नन्दीश्वरादिषु चैत्यवन्दननिमित्तं गमनाऽऽगमनादि निगदितमिति बोध्यम् । श्रावकश्राविकादीनां त्वौपपातिकोपाङ्ग-ज्ञातधर्मकथाङ्गादिषु अम्बड- द्रौपद्यादिदृष्टान्तेन बोध्यम् । एवं देवादीनामपि जीवाभिगम - राजप्रश्नीयोपाङ्गादिषु विजयदेव-सूर्याभदेवादिदृष्टान्तेन प्रतीतमेव । एवं ज्ञानादिरहितत्वादिहेतवोऽपिबाधादिदोषपो (दो) पिता एवेत्यादि सुयुक्तिजलेन लुम्पाकमतमलक्षालनं विधेयमिति । अथ कटुकमते सम्प्रति साधुदर्शन निषेधस्तत्र कुयुक्त्युद्भावना त्वेवं- गूर्जराऽवनिप्रभृतिषु साधवो न दृष्टिपथमायान्ति, तथा विधाssचाराऽदर्शनात् । प्रयोगस्तु विप्रतिपन्नाः साधवो नभवन्ति, प्रवचनोक्ताऽऽचाराऽविधायकत्वात् इतरजनवदिति । तत्र सुयुक्त्युद्भावना त्वेवं- ' तथाविधाऽऽचारस्यादर्शनादित्यत्र '

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168