________________
मध्यमोत्सूत्रिनिदर्शनम्
११५
पर्युषणादिवाचक सांवत्सरिकादिशब्दवत् । शब्दानां हि सङ्केतमनुसृत्य चार्थाभिधायकत्वं न पुनर्व्युत्पत्त्यर्थमात्रमनुसृत्यापि, ..गो-महिष-मयूरादिशब्दानामपि मनुष्याद्यर्थाभिधायकत्वापत्तेः । गच्छतीति गौः, मह्यां शेते इति महिषो, मद्यां रौतीति मयूर इत्यादि व्युत्पत्त्यर्थस्य मनुष्यादावपि विद्यमानत्वात् । स च सङ्केतो · द्विधा स्वसमयसिद्धः सर्वसमय सिद्धश्च । तत्राऽऽद्यो, भाद्रपदसितचतुर्थी सन्ध्याद्वयाऽऽवश्यक क्रियाविशेषादौ सांवत्सरिक-प्रति.क्रमणादिशब्दानां । द्वितीयस्तु दिनकरादौ सूर्यादिशब्दानामिति । एतेन 'पञ्चदश्य यज्ञकालौ पक्षान्तौ पर्वणी अपी'ति नाममालोक्तमादाय पूर्णिमामेव पाक्षिकतया स्वीकुर्वाणोऽपि निरस्तः । यतस्तत्र पर्वशब्दो वंशाङ्गुलीनां ग्रन्थिष्विव सन्धिरूपकालविशेषे सङ्केतितो, न पुनरभिमतधर्माऽनुष्ठानार्हदिवसादाविति । अन्यथा 'वत्सरादिर्मार्गशीर्ष' इति नाममालावचनात् सांवत्सरि.कपर्वाऽपि कार्त्तिकपूणिमायामेव विधेयं स्यात्, न पुनर्भाद्रपद•सित चतुर्थ्यां । तस्मादभिमतधर्मानुष्ठानाऽर्हदिनादौ धात्वादिभिर्व्युत्पत्त्यर्थो नाममाला वा नानुसरणीया, किन्तु स्वसमय सिद्धः सिद्धान्तसंकेतः । स च पाक्षिकशब्दस्य चतुर्दश्यामेव । तथाहि'संते बले वीरियपुरिसक्कारपरक्कमे अट्ठमि चाउछ सि-नागपंचमी. पज्जोसवणा- चाउम्मासएस चउत्थ छट्ठमट्ठमं न करिज्जा पच्छि'ति महानिशीथे । अत्र चतुर्दशीशब्देन पाक्षिकमेबोक्तम् । यतोऽन्यत्रापि प्रायश्चित्ताधिकारे चतुर्दशीशब्दपरिहारेणैव पाक्षि-कशब्दग्रहणम् दृष्टं, न पुनः पाक्षिकचतुर्दशीशब्दयोरेकत्र ग्रहणम् ।
।