SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ... षोडशश्लोक्या वओ महावीरस्स सत्त अंतेवासीसयाइं सिद्धाइं जाव सव्वदु• क्खप्पहीणाई चउद्दस अज्जियासयाई सिद्धाई'ति । एवं संहननादिसामग्र्यभावलक्षणोऽपि हेतुरागमबाधितत्वेन स्वसाध्यं साधयितुमसमर्थः एव । आगमबाधितत्वं च सिद्धिसिद्धौ सिद्धमेव । नहि संहननादिसामग्र्यभावे मुक्तिप्राप्तिः। किञ्च-प्रथममेव संहननं मुक्तिप्राप्ती हेतुः । तच्च तासां विद्यत एव । यदाहुः • श्रीभद्रबाहुस्वामिपादाः श्रीआवश्यकनियुक्तौ. संघयणं संठाणं, उच्चत्तं चेव कुलगरेहिं समं । - वण्णेण एगवण्णा, सव्वाओ पिअंगुवण्णाओ ॥१॥ त्ति, एवं तृतीयाऽनुमानेपि पुरुषेभ्यो हीनत्वादिति हेतुर्न समीचीनः। यतः 'पुरुषेभ्य' इत्यत्र सर्वपुरुषेभ्यः कतिचित्पुरुषेभ्यो वा ? । नाद्यः, स्वरूपासिद्धेः। नहि त्वदीयमतवासितव्रतिन्योऽपि चाण्डालादिपुरुषेभ्यो हीनतया व्यपदिश्यन्ते। द्वितीये, गणधरादीनामपि मुक्त्यवाप्तिन स्यात् । तेषां तीर्थकरपुरुषेभ्यो हीनत्वादित्यादि सुयुक्तियुक्तेर्व्यक्तवरैर्नग्नाटनाटकमुत्रासनीयमिति । अथ पूर्णिमीयकमते पाक्षिकत्वेन पूणिमायाः स्वीकारः। तत्र कुयुक्त्युद्भावना त्वेवं-पक्षेण निवृतं पाक्षिकं। तत्र पक्षस्तावत् पञ्चदशदिनात्मको भवति । स च प्रतिपदमादौ कृत्वा पूर्णिमायामेव पूणीभवत्यतः पूर्णिमायामेव पाक्षिकप्रतिक्रमणम् युक्तमिति । तत्र सुयुक्त्युद्भावना त्वेवं पक्षेण निवृतं पाक्षिकं । तच्च चतुर्दशीरूपमेव विज्ञयं, पाक्षिकशब्दस्य चतुर्दश्यामेवाप्तैः सङ्केति• तत्वात् । यः शब्दो यत्र सङ्केतितः स शब्दस्तमेवार्थमभिधत्ते,
SR No.022253
Book TitleDharmsagar Granth Sangraha
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages168
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy