________________
मध्यमोत्सूत्रिनिदर्शनम्
११३
प्रदेशाऽसम्बद्धपुद्गला आत्मस्वभावमावृण्वन्ति, गिरिगुहापबरकवातादीनामपि तथात्वेन केवलज्ञानस्य कथाया अप्युच्छेदापत्तेः । किञ्च सूर्यालोकाऽऽवरणस्य भित्त्यादेरालोकत्वेन साम्याभिशापतिप्रदीपाद्या लोकस्याप्यावरणत्वेन दर्शनात्केवलज्ञानाssवरणस्य वस्त्रस्यापि ज्ञानत्वेन साम्यात् मतिश्रुतावधिमनःपर्यायज्ञानानामप्यावरणत्वं भवत्केन वायं ?, तच्चाध्यक्षबाधितत्वेन तवाऽप्यनिष्टमिति बोध्यम् । यच्चोक्तं तथाविधचित्ताऽसामर्थ्यादिति । तत्र तादृशसामर्थ्याभावस्तासां किं गतिस्वाभाव्यात् जातिस्वाभाव्यादुत संहननादिसामग्र्यभावाद्वा ? | न तावदाद्यो, मनुष्यमात्रस्यापि मोक्षाभावप्रसक्तेः । तच्चावयोरप्यनिष्टं । द्वितीये, का जातिः ?, पञ्चेन्द्रियत्वं स्त्रीत्वं वा ? | आद्येऽनन्तरोक्तवदावयोरप्यनिष्टं । द्वितीये, स्त्रीजातेस्तथाविधचित्ताऽसामर्थ्ये किं प्रमाणं प्रत्यक्षं परोक्षं वा ? । न तावत्प्रत्यक्षं, तदर्थावबोधरूपस्य प्रत्यक्षस्य तवाऽसम्भवात् । द्वितीये त्वनुमानमागमोवा ? । न तावदनुमानं, तथाविधसाध्य साधक हेतोर दर्शनात् । न च सप्तमनरकपृथिवीगमनाऽसामर्थ्यमेव तत्र हेतुरितिवाच्यम् । तस्य तीर्थकरबलदेवादौ व्यभिचारित्वात् तेषां सप्तमनरकगमनसामर्थ्याभावेऽपि मुक्तिगमनसामर्थ्य सद्भावात् । किन नहि मुक्तिगमनं प्रत्यधोगतिसामध्यं हेतुर्मत्स्यादीनामपि मुक्तिगमनसामर्थ्यप्रसक्तेः, तेषामधोगतिगमनसामर्थ्यसद्भा
वात् । नाप्यागमः, प्रत्युत स्त्रीणां मुक्तेरागमे प्रतिपादनान्निषेध• वचनस्याऽऽगमबाधितत्वात् । आगमो यथा - 'समणस्स भग