________________
११६
षोडशश्लोक्या तथाहि-'अट्ठमीए चउत्थं, पक्खिए चउत्थं, चउम्मासिए छठें, संवत्सरिए अट्ठमं न करिति पच्छित्तं। चशब्देन एएसु चेव चेईयाइं साहुणो वाजे अण्णाए वसहीए ठिया ते न वंदंति पच्छितंति, व्यवहारपीठचूणौँ । एवमावश्यक-निशीथ-पाक्षिकचूादिष्वपि यत्र चतुर्दशीशब्दग्रहणं, न तत्र पाक्षिकशब्दग्रहणं । यत्र पाक्षिकशब्दग्रहणं, न तत्र चतुर्दशीशब्दग्रहणं। अतो 'प्रन्थस्य ग्रन्थान्तरं टीका'इतिन्यायात् पाक्षिक-चतुर्दशीशब्दावेकार्थवाचकत्वेनाऽन्योऽन्यं पर्यायरूपावेवेति बोध्यम् । किञ्च-यथा पाक्षि. कचतुर्दशीशब्दोपलक्षितचतुर्थाऽकरणे प्रायश्चित्तमुक्तं, न तथा पूर्णिमाशब्दोपलक्षितचतुर्थाऽकरणेऽपीति। किञ्च-दशाश्रुतस्कन्धचूर्णौ पाक्षिकशब्दस्य चतुर्दशीत्वेन व्याख्यानोपलब्धिरपि । तथाहि-पक्खियपोसहियसुसमाहिपत्ताण'ति दशासूत्रं। चर्णिणव्याख्या त्वेवं-'पक्खियं पक्खियमेव, पक्खिए पोसहो पक्खियपोसहो चाउद्दसिअट्ठमीसु वा समाहिपत्ताणं'ति । अत्र द्वितीयव्याख्याने साष्टमीचतुर्दशीग्रहणेन प्रथमव्याख्याने पाक्षिकशब्देन चतुर्दश्येव गृहीताऽवसातव्या। एतेन प्रथमव्याख्याने पाक्षिकशब्देन राकारक्तानां राकाऽपि परास्ता। प्रथमव्याख्योयां पाक्षिकशब्देन पूर्णिमाग्रहणे द्वितीयव्याख्यायां मुख्यार्थपरित्यागेन निराश्रयत्वापत्तेः। त्वन्मताभिप्रायेण तथाविधव्याख्येयसूत्रस्याभावात्। यच्च श्रीदेवचन्द्रसूरिकृतठाणाङ्गवृत्तौ-'एवं कारणे कालिगायरिएहिं चउथीए पज्जोसवणं पवत्तियं समत्थसंघेण य अणुमण्णियं तव्वसेण य पक्खियाईणि चउद्दसीए आयरि