________________
मध्यमोत्सूत्रिनिदर्शनम्
११७ याणि, अण्णह आगमुत्ताणि पुण्णिमाए'त्तिलिखितमस्ति । तत्र 'तव्वसेण य चउम्मासियाणि चउद्दसीए आयरणे'त्यभिप्रायवत एव ग्रन्थकर्तुः छाास्थ्येनाऽनाभोगादेव पक्खियाईणि'त्तिपदमापतितम् । अनाभोगस्य च क्षणिकसंशयवदतिचाररूपत्वेन सम्यग्दृशामपि सम्भवात् । उक्तं च'सम्मदिट्ठी जीवो, उवइळं पवयणं तु सद्दहइ।
सदहइ असन्भावं, अणभोगा गुरुनिओगा वा' ॥१।। इति । [ उत्तरा० नि०] स चानाभोगो देशेनवावसातव्यः । सम्यग्दृशां हि तस्य देशेनैव सम्भवात् । सर्वथाऽनाभोगस्तु एकेन्द्रियादीनामेवेति भावः। यद्वा केनचिद् राकारक्तेनैव मतान्तरीयेण परावृत्त्याऽक्षराणि लिखितानीति बोध्यम्। तच्च कुतो ज्ञातमिति ? स्थानाङ्गवृत्तिवचनादेव । तद्वचनं च-'अण्णह आगमुत्ताणि पुण्णिमाए'त्ति ज्ञेयं । अयं भावः-एवं च कारणे सति श्रीकालिकाचार्यः पर्युषणापर्व चतुर्थ्या प्रवर्तितम् । तद्वशेन च यदागमोक्तं पूर्णिमायामासीत्तच्चतुर्दश्यामेवाऽऽचरितमिति स्थानाङ्गवृत्तिकर्तुरभिप्रायः। तथाचाऽऽगमेऽवलोक्यमाने पाक्षिक पूर्णिमायां नोक्तं, किन्तु चतुर्मासकमेव । उक्तं च-से णं लेवे गाहावई समणोवासए अहिगयजीवाजीवे' इत्यादिस्तत्र लेशस्य वृत्तिरियं'तथा चतुर्दश्यष्टम्यादिषु तिथिषु, उद्दिष्टासु-महाकल्याणकसम्बन्धितया पुण्यतिथित्वेन प्रख्यातासु, तथा पौर्णिमासीषु च तिसबपि चतुर्मासकतिथिष्वित्यर्थः। एवम्भूतेषु धर्मदिवसेषु सुष्ठ्वतिशयेन प्रतिपूर्णो यः पौषधो-व्रताभिग्रहविशेषस्तं प्रतिपू