________________
११८
षोडशश्लोक्या
माहारशरीरब्रह्मचर्याऽव्यापाररूपं पौषधमनुपालयन् सम्पूर्ण श्रावकधर्ममनुचरती'ति सूत्रकृदङ्गद्वितीयश्रुतस्कन्धसप्तमाध्ययने लेपश्रावकवर्णके। तस्मात् स्थानाङ्गवृत्तिकर्तुरभिप्रायश्चतुर्दश्यां चतुर्मासकाऽऽचरणेत्येवावसातव्यः। अन्यथा 'अण्णह आगमुत्ताणि पुण्णिमाए'त्ति व्यतिरेकवचनं नाभिदधीत । अलीका गमवचनं दर्शयतो वा यो] धावत २ भो डिम्भास्तरङ्गिणीतीरे गुडशकटं विपर्यस्तमिति धूर्त्तवाक्यस्येवाऽप्रमाणतापत्तेः, अभिलषितार्थाऽप्रापकत्वेन व्यभिचारित्वात् । अभिलषितार्थाऽप्रापकत्वं च पूणिमायां पाक्षिकमागमोक्तमिति त्वदीयं वचः श्रुत्वा कश्चित्सम्यक् प्रज्ञापोतमवाप्याऽमुद्रसमुद्रमागममवगाहते। आगमे च तथाविधविचारस्याऽऽकाशकुसुमस्येवात्यन्तासत्त्वात् तस्य पुंसस्तथाविधविचारस्य दर्शनाभाव एव । तथा च सिद्धं 'तव्वसेण य चउम्मासियाणि वि चउद्दसीए आयरणे'ति पाठे ग्रन्थकर्तुराकूतं। एतेन क्वचिज्जीर्णपुस्तके लिखितायां कालिकाचार्यकथायां-'तव्वसेण य चउम्मासिआणि वि चउद्दसीए आयरणे'ति पाठो दृश्यते, स एव सत्यतया स्वीकर्त्तव्यः, न पुनर्नूतनपुस्तकेषु क्वचित् 'पक्खिआणिवि चउहसीए आयरणे'तिपाठः। तस्य पाठस्य मतान्तरीयेण परावर्तित्वात् । एवं कथावल्यामपि'पक्खियपडिक्कमगत्थ'मित्येतावन् मात्रग्रन्थकर्तुंरनाभोगः, पाश्चात्यप्रक्षेपो वाऽवसातव्यः। कथावली तावत्कल्पचूर्णरुद्धारः। कल्पचौँ-'अमावस्यायां पोपवासस्येत्येव मात्रं भणितमिति । यश्चावश्यकचूर्णी