________________
मध्यमोत्सूत्रिनिदर्शनम्
११६ . सव्वेसु कालपव्वेसु सुपसत्थो जिणमए जहा जोगो। .... . अट्ठमिपण्णरसीसु य नियमेण हविज पोसहिउ ॥त्ति पाठः । तत्र 'पुव्वावरेण परिभाविऊण सुत्तं पयासिअव्वंतिवचनात् पूर्वापरसम्बन्धमालोच्य सूत्रेऽत्र व्याख्या कर्त्तव्या। तथा च प्रथमपाठे पञ्चदशीपदं चतुर्दश्या उपलक्षक, द्वितीयपाठे चतुर्दशीपदं पञ्चदश्या उपलक्षकमिति । अन्यथाऽऽवश्यकचूण्णौँ च विसंवादः स्यात् । यतस्तत्रैव चूण्णौँ प्रतिमाधिकारे-'चाउद्दसिअट्ठमी-पुण्णिमासिणीसु पडिपुण्णं पोसह सम्म अणुपालेत्ता भवती'ति गदितम् । किञ्च-यदि पूणिमायां पाक्षिकमागमोक्तमभविष्यत्, कथं तर्हि पूणिमीयकमताऽऽकर्षकचन्द्रप्रभाऽऽचार्यस्य गुरुभ्राता श्रीमुनिचन्द्रसूरिः पाक्षिकसप्ततिकायामागमोक्तं चतुदश्यां पाक्षिकमसाधयिष्यत् । कथं वा श्रीमुनिचन्द्रसूरिप्रमुखसमस्तसङ्घन निवारितोऽपि स्वाभिनिवेशमत्यजन्नेव चन्द्रप्रभाऽऽचार्यः पूर्णिणमायां पाक्षिकं प्रवर्तितवानिति वृद्धसम्प्रदायोऽप्यभविष्यदित्यादिसुयुक्तिखरशाणसम्पर्केण स्ववाक्करवालमुत्तेजीकृत्य धीमद्वरै राकारक्तेन्द्रजालजालं विलूनविशीण्णं कार्यमिति । ___ अथौष्ट्रिकमते स्त्रीणां जिनपूजानिषेधस्तत्र कुयुक्त्युद्भावना त्वेवं-स्त्रियो जिनपूजायोग्या न भवन्ति, नियतापावित्र्योपेतत्वात्, साश्रवत्रणोपेतपुरुषवदिति । अत्र सुयुक्त्युद्भावना त्वेवंस्त्रीणामपावित्र्यं कादाचित्कं सार्वदिकं वा । आद्य, पुरुषाणामपि जिनपूजाऽनर्हत्वप्रसक्तेः । तेषामपि जिनप्रतिमाऽऽशातनाहेतुभूतस्य कादाचित्कस्य नियताऽपावित्र्यस्य सद्भावात्। द्वितीये,