________________
१२०
षोडशश्लोक्यां
नमस्कारादिश्रुताध्ययनाऽध्यापनप्रतिक्रमणादिधर्मानुष्ठानमात्रस्याऽप्युच्छेदाऽऽपत्तेरित्याद्यनेकयुक्तिज्योतिःकलापकलितां मत्कृ
तौट्रिकमतोत्सूत्रप्रदीपिकामादाय विद्वद्वरैरौष्ट्रिकमतोत्सूत्रोद्भूतध्वान्तविध्वंसो विधेयः ।
अथ अवलमते श्रावकश्राविकाणां मुखवस्त्रिकादिनिषेधः । तत्र कुयुक्त्युद्भावना त्वेवं श्राद्धानां मुखवस्त्रिका दिरजोहरणग्रहणं नोचितं साधुलिङ्गत्वात्, तुम्बिकादिपात्रग्रहणवदिति । तत्र सुयुक्त्युद्भावना त्वेवं भो स्तनिक ! मुखवस्त्रिकादेः साधुलिङ्गत्वं कुतः ?। किं साधुभिरुपात्तत्वात् उपादाने वा साधुसारूप्यभवनादुत तीर्थकृद्भिः साधूनामेवोपदिष्टत्वाद्वा ? | आद्ये, धान्यादन-जलपान-वस्त्रपरिधान - सुपात्रदान- सुध्वान-तत्त्वार्थश्रद्धान धर्म्मध्यान- गुर्व्वादिबहुमान प्रामनगरादिसंवास सुविद्याभ्यास-करग्रास- पादन्यास - नमस्कारजापादीनां साधुभिरङ्गीकृतत्वेन त्वदीयमतवासिभिर्गृहस्थैश्छगणभक्षण-स्वेद बिन्दुपान- कण्टकशाखापरिधान - कुपात्रदान- रुदनादिक्रिया विशिष्टध्वान-तत्त्वार्थाsश्रद्धान- हिंसादिध्यान गुर्वादिगा लिप्रदान - चाण्डालादिपाटकवास- होलिकादिगीताभ्यास-भूमुख सम्पर्कप्रास शिरोन्यास- म्लेच्छजाप्यजापादिकमेव स्वीकर्तव्यं स्यात् । द्वितीये तु प्रत्यक्षबाधः । न हि शिरः कूर्चलोच प्रलम्बकर्णाद्यभाव-कच्छोटिकादिसद्भावमुद्रिकाद्याभरणविभूषादिभिर्वैरूप्यस्य विद्यमानत्वेऽपि मुखवस्त्रिकादिमात्रेणापि साधुसारूप्यं सम्भवति । तृतीये त्वाऽऽगमसामायिकादिक्रियासाधकतमत्वेन मुखवस्त्रिकादेः
बाधः ।