________________
३२
श्रीमहावीरविज्ञप्ति
नानि च तानि हरन्तीति अनिष्टहृतः । एवंविधा भावा:स्वभावा येषां तानीष्टप्रदाऽनिष्टहृद्भावानि । इत्यमुना प्रकारेण दृष्ट्वापि बाह्यलोचनेन पुस्तकन्यस्ताऽक्षरेष्ववलोक्यापि, वा शब्दात्तथानुष्ठीयमानान्यप्यपेतदृग् । अपेता-गता, हग्-भावलोचनं यस्य सोऽपेतदृग् पूर्णिमीयकः, ज्ञानाचारहितोपचारं । ज्ञानाचारे हितश्चासावुपचारश्च तमेवंविधमेतत्प्रत्यक्षसिद्धं शुद्धपरम्परागततीर्थे श्राद्धश्राद्धीभिः क्रियारूपेणाऽनुष्ठीयमानमुपधानतपः, आदिशब्दात्साधूनां योगानुष्ठानपरिग्रहः । तदीप्सिताऽसाधनं सुखाद्यसाधनं, विद्वान् - जानानः प्रभुपुरस्तवपुरस्तान्निग्रहं-यथापराधदण्डं किं नो व्रजेत् प्राप्नुयात् ? । अपि तु प्राप्नुयादेवेत्यन्वयमुखेनैवाक्षरार्थः ।
भावार्थस्त्वयं- जनप्रवचने ज्ञानाऽऽराधनं तावत्कालाद्युपचारैरेव भवति । उक्तं च
“काले विणए बहुमाणे उवहाणे तह य अनिह्नवणे । वंजण अत्थतदुभये अट्ठविहो नाणमायारो " ॥ १ ॥ ति । तत्रोपधानं ज्ञानमुद्दिश्य तपोविशेषस्तत्करणं च ज्ञानाऽऽराधनहेतुर्ज्ञानमूलकत्वाच्च दर्शनचारित्रयोरपीति । तच्च साधू। नामावश्यकयोगोद्वहनं, श्राद्धार्ना तूपधानोद्वहनं । तच्च पूर्णिमीयस्य नाभीष्टं । उपलक्षणात्तत्प्रतिपादकश्रीमहानिशीथादिशास्त्रमपि । तस्मात् हे प्रभो ! तव पुरो निग्रहास्पदं भवेदेव ।
ननु भो ! अस्यामवसर्पिण्यां प्रथमतया चन्द्रप्रभस्यैवश्रावकप्रतिष्ठाव्यवस्थापकत्वेन प्रथम तस्तदुद्भावनेनैव विज्ञप्ति -