________________
द्वात्रिंशिका
रुचितेतिचेत् । सत्यं, यद्यप्येवमस्ति, तथापि सम्प्रति यन्मते यदुत्सूत्रस्य बाहुल्येन प्रसिद्धिस्तन्मते तदुद्भावनपुरस्कारेणैव विज्ञप्तिकरणाभिप्रायात् श्रावकप्रतिष्ठायाः कटुकमते एव प्रसिद्धत्वेन तत्रैव किश्चिदाविष्करिष्यते । अन्यथा पाशचन्द्रः प्रतिष्ठाया एवापलापी, लुम्पाकस्तु प्रतिष्ठाप्यप्रतिमाया अप्यपलापी। नग्नाटौष्ट्रिकव्यतिरिक्ताः शेषास्तु श्राद्धप्रतिष्ठाव्यवस्थापका इत्यादिव्यक्त्या वक्तव्ये विज्ञप्तेर्गरीयस्त्वं स्यात्, तस्मात्साकर्यविवेकौ प्रत्युत्सूत्रसम्भवेऽप्युपलक्षणसूचितावेव बोध्यावितिकाव्यार्थः ॥ इति गतः पूर्णिमीयकः ।।
अथ काव्यषट्केनौष्ट्रिकापरनाम्नः खरतरस्य स्वरूपं विवक्षुराद्यकाव्येनातिप्रसङ्गमाहपावित्र्येण विवर्जितेति रमणी नाऽर्हत्सपर्योचिता, मत्वा तां प्रतिषिद्धवान्किमु न च ज्ञानादिसम्पद्ग्रहम् । कादाचित्कमशौचमन्यसदृशं न ज्ञातवानज्ञराट, दुज्ञेयस्त्वरयाऽरिरेष भगवन् ! सम्प्रत्यमीषां नृणाम् ॥११॥ __व्या०—हे भगवन्–हे स्वामिन् ! एषः-प्रत्यासन्नोऽध्यक्षः खरतरनामाऽज्ञराट-मूर्खचक्रवर्ती सम्प्रतीदानीममीषां-'अदसस्तु विप्रकृष्ट' इति वचनात् त्वत्तो दूरवर्तिनां नृणां-मनुष्याणां, त्वरया-शीघ्र, दुज्ञेयो-दुर्लक्ष्यो वर्तत इत्यन्वयः। एष किं कृतवान् ? पावित्र्येण-शुचिना, वर्जिता-रहिता रमणी-योषित, नाऽर्हत्सपर्योचिता-जिनपूजार्हा न भवत्येवेत्यमुना प्रकारेण मत्वा-ज्ञात्वा