________________
श्रीमहावीरविज्ञप्ति
निवाधिकाराद् दुर्ज्ञानविषयीकृत्येतियावत् । तां योषितं प्रतिषिद्धवान् स्त्रीणां जिनपूजायामनधिकार इत्येवंरूपेण जिनपूजातः पृथक् कृतवान् जिनपूजां त्याजितवानिति यावत् । चः पुनरर्थे । ज्ञानादिसम्पद्यहं पुनः किमु किं न निषिद्धवान् ? तथा कादाचित्कमशौचमिति । स्त्रीगतं यत्कादाचित्कमशौचं अपावित्र्यं, तदन्यसदृशं-रमण्यशौचापेक्षया पुङ्गतमशौचमन्यत् तेन सदृशं - तुल्यं न ज्ञातवानित्यक्षरार्थः ।
-
भावार्थस्त्वयं-हे भगवन् ! एष खरतरनामा तव वैरी साम्प्रतीनजनानां दुष्षमानुभावादज्ञानबाहुल्येनाविदितसद्गुरुवचनपरमार्थानां कदाग्रहग्रस्तचेतसां चेतिगम्यः, सहसा दुरधिगम्यः । दुरधिगम्यत्वं च 'कुमतं हि क्रियाबलेन वर्धते ' इति - वचनात् शेषकुमतापेक्षयाऽस्य स्वमतिकल्पितक्रियाया उग्रत्वाSSभासतया मूढात्मनां क्रियाधिक्यस्य भ्रान्त्याऽऽपादकत्वेन बोध्यम् । तच्चैवं अपावित्र्येण हेतुना स्त्रीणां जिनपूजायामनधिकारः, विशेषत्रतित्वेन पौषधिकानां भोजनानधिकारः, सामायिकादौ साधुत्रतोच्चारवन्नमस्कारत्रयपूर्वक त्रिदण्डकोच्चार इत्यादिकं तीर्थकराऽऽज्ञाबाह्यत्वेनानुग्रमप्युग्रक्रियात्वेनाऽऽभासत इति । तत्र स्त्रीपुजा निषेध निराकरणं त्वत्रैव काव्येऽतिप्रसङ्गादिना कृतमेव । पौषधिकानां भोजननिषेधनिराकरणं तु चतुष्प नियमेनोक्ते पौषधत्रते चतुर्दश्यां नियमेन चतुर्थतपःकरणाज्ञया च तीर्थकृतामनुज्ञैव पूर्णिमायां पारण के सिद्धे सिद्धमेव । अन्यथा चतुर्मास्यामिव पाक्षिकेऽपि षष्ठतप एव प्रोक्तं भवेत्तच्च नोक्त
३४