________________
द्वात्रिंशिका
-
मिति । एवं त्रिनमस्कारपूर्वक त्रिदण्डको चारादावुप्रत्वाभासत्वनिराकरणं मत्कृतौष्टिकमतोत्सूत्रप्रदीपिकातो बोध्यम् । अज्ञराडिति विशेषणेन दिगम्बराद्यपेक्षयाऽतिप्रसङ्गाद्यज्ञानेन सर्वथा तत्त्वविचारबाह्यत्वमसूचि । अतिप्रसङ्गाद्यज्ञानं तस्यापावित्र्येण हेतुना स्त्रीणां जिनपूजानिषेधकत्वेन स्फुटमेव । तथाहि - स्त्रीणां यदपावित्र्यं तत्सार्वजनिकं कादाचित्कं वा ? । आद्येऽतिप्रसङ्गो यथा सार्वदिकादपावित्र्यात् स्त्रीणां यदि जिनपूजानिषे'धस्तर्हि तेनैव हेतुना ज्ञानादिसम्पद्ग्रहस्यापि निषेधः सम्पन्नः, उभयत्रापि तत्कल्पितयुक्तेस्तौल्यात् । स चानेन मूर्खशेखरेण नज्ञातः । द्वितीयहेतोरप्यतिप्रसङ्गो, यथा - कादाचित्कमपावित्र्यं स्त्रीषु तथा पुंस्वपि प्रतीतमेव । अपि शब्दात्साध्यातिप्रसङ्गो बुद्धिगम्यः । तथाहि-तुल्येप्यपावित्र्ये यदि स्त्रीणां जिनपूजानिषेधः कथं न नृणामपि । एवमपि यदि पुंसामनुज्ञा कथं न स्त्रीणामपीति बन्द्य (बाधा ) परनामा साध्याऽतिप्रसङ्गः सोप्यनेन न ज्ञातः । एवमागमत्राधोपि प्रभावत्यादिकृत जिनपूजादर्शनतः, सोऽपि न ज्ञातः इति काव्यार्थः ।
३५
अथ तत्कल्पितं तस्यैवोभयपाशकल्पं विकल्पयन् भगवदाSSज्ञापराङ्मुखत्वप्रसिद्धिं तद्धेतु ं च दिदर्शयिषुर्द्वितीय काव्यमाहवृद्धौ मासतिथी प्रमाणमथवा ते न प्रमाणं किमु, ब्रूहीत्येवमुदीरितः प्रतिवचोऽशक्तः कुकर्माऽरिजित् ! | वाचाऽऽज्ञाविमुखः प्रसिद्धिमगमत् श्रीवार्षिके पर्वणि, प्राप्तानन्द इव स्मितं च कुरुते कृत्वा हि तत् श्रावणे ॥१२॥