________________
श्रीमहावीरविज्ञप्ति
व्या०-हेsरिजित् जिन ! वृद्धौ मासतिथ्योवृद्धौ सत्यामिति गम्यं, मासतिथी प्रतीते ते तव, किमु किं प्रमाणं, दिनगणनापड़तावुपन्यसनीये ब्रहीत्येवममुना प्रकारेणोदीरितो-नोदितः, प्रतिवचोऽशक्तः प्रत्युत्तरयितुमसमर्थः, वाचा - वचनेन, कुकर्मा-यतत्प्रलापी सन् आज्ञाविमुखस्तीर्थकृदाज्ञाखण्डनकारी श्रीवार्षिके पर्वणि- पर्युषणा महसि, प्रसिद्धिमगमत् - अयं जिनाज्ञावज्ञाकारीत्येवंरूपेण लोके प्रसिद्धो जातः । हि यस्मात्तद्वार्षिकं पर्व श्रावणे - श्रावणमासे चकारात् भाद्रपदवृद्धौ प्रथमभाद्रपदे चकृत्वा विधाय, प्राप्ताऽऽनन्द इव अवाप्तमुदिव स्मितं- हास्यं कुरुते - विधातीत्यन्वयमुखेनैवाक्षरार्थः ।
३६
भावार्थस्त्वयं-मासतिथ्योवृद्धौ सत्यां प्रथमो मास स्तिथि - र्वा किं तव प्रमाणं ? सविंशतिरात्रिमासे व्यतिक्रान्ते पर्युषितव्यमित्यादि दिनगणनापतावुपन्यसनीये उत नेत्येवं इहोदीरितोऽपि उभयथापि पाशात् प्रत्युत्तरयितुमसमर्थः । तथाहिप्रमाणे तावत् "चण्डं मासाणं अट्ठण्हं य पक्खाणं वीसुत्तरसयराइंदिआण" मित्यादिक्षामणकालापकपाठप्रामाण्यात् श्रावण भाद्रपदाश्विनवृद्धावाषाढसितचतुर्दशीतो ह्याश्विनसितचतुर्दश्यामेव चतुर्मासककरणताप्रसङ्गेन कार्तिकसितचतुर्दश्यां चतुर्मासकरणे 'पंचण्हं मासाणं दसहं पक्खाणं पंचासुतरसयराइंदिआण' मित्यादिनवीनक्षामणकालापककल्पनप्रसङ्गेन च महति सकटे पतनमेतस्य तस्योभयोरप्यनिष्टत्वात् । किञ्च श्रावणवृद्धौ चतुर्मासकात्पञ्चाशता दिनैः पर्युषणा करणे
"