________________
द्वात्रिंशिका
३१
अयं भावः-यथा सांवत्सरिकादिशब्दाः पर्युषणापर्वादिषु सङ्केतितास्तथा पाक्षिकशब्दोऽपि चतुर्दश्यामेव । यच्च 'पञ्चदश्यौ यज्ञकालौ पक्षान्तौ पर्वणी अपी'ति नाममालायां पञ्चदश्याः पर्वत्वमुक्तं, तद्धि वंशाङगुलीप्रभृतीनां ग्रन्थिष्विव कालसन्धिविशेषादौ सङ्केतवशाद् बोध्यम् । अन्यथा 'वत्सरादिर्मार्गशीर्ष'इति नाममालावचनात् कार्तिकसितपञ्चदश्यामेव पर्यषणापर्व कर्तव्यं स्यात् । लोकरूढ्या तु दीपालिकाऽऽषाढादौ टिप्पनानुसारतस्तु चैत्रेऽपि । तच्च तवापि नाभीष्टमित्याद्यनेकयुक्त्या तन्निराकरणं सुधीसाध्यमिति । अरिता चानादिसिद्धसिद्धान्तोक्तसङ्केतोन्मूलनात् स्फुटैवेति काव्यार्थः॥
अथ द्वितीयकाव्यमाहज्ञानादीन्युपचारसाध्यशुचितानीष्टप्रदाऽनिष्टहृद्भावानीति तब प्रणीतसमये दृष्ट्वापि वाऽपेतहग । ज्ञानाऽऽचारहितोपचारमुपधानादीप्सिताऽसाधनं, विद्वानेतदिति प्रभो! प्रभुपुरः किं नो व्रजेन्निग्रहम्॥१०॥
व्या०—हे प्रभो ! तव प्रणीतसमये-त्वदुक्तसिद्धान्ते, उपचारसाध्यशुचितानि। उपचारेण-कालविनयबहुमानोपधानादिना, साध्या-साधनार्हा, शुचिता-पावित्र्यं येषां तानि उपचारसाध्यशुचितानि । ज्ञानादीनि-ज्ञानदर्शनचारित्राणि, कथम्भूतानि ?, इष्टप्रदाऽनिष्टहृद्भावानि, इष्टानि-सुखानि सुखसाधनानि च तानि प्रददतीतीष्टप्रदाः। अनिष्टानि-दुःखानि दुःखसाध