________________
श्रीमहावीरविज्ञप्तिदशी-यज्ञकालं, अवाप्य-प्राप्य, सकलीस्यात्-पूर्णीभवेत्तत्तस्मात् पक्षेण निवृत्तं पाक्षिक, तत्र-पञ्चदश्यां युक्तं, तकार एवार्थे, युक्तमेवेति विकल्प्याऽसदाशय कल्पनपरः-कुविकल्पनाऽऽसक्तः इत्यक्षरार्थः।
भावार्थस्त्वयं-यस्तु स्वाग्रहीः स्वोक्तं परित्यक्तुमशक्तः स युक्तिदुर्बलेऽपि स्वमतिकल्पिते मार्गे युक्तिं नेतुमिच्छन्ननेकशः कुविकल्पनकल्पनाजालाकुलितो भवत्येव । उक्तं च द्वितीयाङगटीकायां
"आग्रही बत निनीषति युक्तिं, तत्र यत्र मतिरस्य निविष्टा। पक्षपातरहितस्य तु युक्ति-यंत्र तत्र मतिरेति निवेश” ॥ मिति । कदाग्रही चायं सर्वजनप्रतीत एव । तन्निदानं तु प्रागुद्द शाधिकारे किञ्चिदर्शितं । विशेषतस्तु गुरुतत्त्वप्रदीपादिग्रन्थेभ्योऽवसातव्यम् । ___ ननु पूर्णिमीयकस्य पञ्चदश्यामेव पाक्षिकस्वीकारात् पञ्चदश्यामेव पाक्षिकं युक्तमिति प्रयोगो युक्तो, न तु पञ्चदश्यां पाक्षिक युक्तमेवेतिरूपेण प्रयोग इति चेत् । मैवं आचरणरूपतया तस्य चतुर्दश्यामपि पाक्षिकस्वीकारात् । स च स्वीकारो विशेषणसंयुक्तैवकारेण सूचितः, परं वैपरीत्यश्रद्धानात्तदपि मिथ्यात्वमेव । वैपरीत्यश्रद्धानं तु आगमोक्तं यच्चतुर्दश्यां पाक्षिकं तदाचरितमितिमननात् । यच्चाऽनागमिक पूर्णिमापाक्षिकं तदागमोक्तमिति श्रद्धानाच्च बोध्यम् । अथ तत्कल्पनानिराकरणं तु उत्तरार्धन द्रष्टव्यम् ।