________________
द्वात्रिंशिका
२६
--
आवश्यकादयः शब्दा ग्राह्याः । तद्वच्च भूतेष्टादिन एव चतुर्दशी - दिन एव पाक्षिकशब्द सङ्केतं चतुर्दशीदिनपाक्षिकशब्दयोर्वाच्यवाचकभावलक्षणमनादिसिद्धं त्वदुपदिष्टं चोन्मूलयन - पाक्षिकशब्देन चतुर्दशी न वाच्येति दुर्वचसा निर्मूलीकुर्वन्नपलपन्नितियावत् । ही खेदे । एषोऽध्यक्षसिद्धः पूर्णिमीयको रातिर्विज्ञप्तिस्तुत्यधिकारात्तव वैरी स्फुटं यथा स्यात्तथा वर्तत इत्यन्वयः । तत्र-चतुर्दश्यां पाक्षिकशब्दस्य सङ्केत मुन्मूलयन् कीदृग् जा विशेषणद्वारा उपहास्यमिश्रित फलमाह - तत एष किंलक्षणः ? कुह्वादिकक्षाश्रितः । कुहूः - अमावास्या आदिशब्दात्पूर्णिमा तयोः कक्षा - पाक्षिकत्वेन स्वीकारस्तां श्रितः शरणीकृतवान् । अत्रोपहास्यसूचकपदं कुहूरितिबोध्यं । यतस्त्वदाज्ञाद्विषताममावास्याश्रयणमेव श्रेयः । तथा च पाक्षिकत्वेन पूर्णिमाऽमावास्ययोः श्रयणात् तस्य पूर्णिमीयक आमावासिकश्चेति सान्वर्था नामद्वयी सम्पन्ना। अन्य [त्व]था पूर्णिमीयकनाम्न एव सान्वर्थता - करणे पूर्णिमैव पाक्षिकत्वेन स्वीकर्तव्या स्यात् । तथा च मास-मध्ये पूर्णिमाया एकत्वेन पूर्णिमा मासिकमेव पर्व स्यान्न पाक्षिकमित्यप्यस्य वराकस्य दूषणं सूचितं बोध्यम् । यद्वा यच्चतुर्दश्यां पाक्षिकशब्दस्य सङ्केतोन्मूलनं तत्कुतः ? इति विशेषणद्वारा - हेतुमाह – यतः स किंलक्षणः ?, कुह्वादिकक्षाश्रितस्ततश्चतुर्दश्यां पाक्षिकशब्दस्य सङ्केतोन्मूलकः, ततश्च कीदृग् जातः 'पक्षः पञ्चदशीमवाप्य सकलीस्यात्तत्र तत्पाक्षिकं युक्तं चेति विकल्प्य कल्पनपर' इति । पक्षः - पञ्चदशदिनात्मकः, पञ्च-