________________
श्रीमहावीरविज्ञप्ति
षपानमितिन्यायः सम्पन्नः । न चैवं वस्त्रादिवत् सुवर्णाद्यपि धारणीयमितिवाच्यं तस्य सर्वविरतेः सिद्धिसाधनत्वेन जिना -
"
नुपदिष्टत्वात् । न च तथा वस्त्रपात्रादिकं, तस्य सिद्धिसाधनसाधुशरीरोपष्टम्भकमात्रस्याऽन्नपानीयादिवज्जिनोपदिष्टत्वात् । 'उक्तं चागमे - "जंपि वत्थं च पायं चेत्यादि । तथा यदवाच्यं लिङगोपस्थादि, तन्न निदर्शनाहं । यच्च निदर्शनाहं हस्तपादादि, तन्नावाच्यमिति सकललोकप्रसिद्धोऽपि विरोधस्तस्याप्यज्ञता । “निर्वाच्यं च निदर्शयन्नि'ति विशेषणेन निर्दिष्टः । किञ्च - म्ले - च्छादिकुल विशेषमासाद्याऽवाच्यमपि लिङ्गादिकं वाच्यं दृष्टं, परं निदर्शनीयाऽर्हतया सम्मतं तु दिगम्बरस्यैव दृष्टम् । अतो म्लेच्छादिभ्योप्यस्याविवेकित्वमपि सूचितं बोध्यमिति काव्यार्थः । इति गतो दिगम्बरः ।
अथ क्रमागतस्य पूर्णिमीयकस्य काव्यद्वयेनाभिप्रायोद्घाटनपूर्वकं निराचिकीर्षुराद्यकाव्यमाह
पक्षः पञ्चदशीमवाप्य सकलीस्यात्तत्र तत्पाक्षिकं, युक्तं चेति विकल्प्य कल्पनपरः कुछ । दिकक्षाश्रितः । ही सांवत्सरिकादिवज्जिनपते ! सङ्केतमुन्मूलयन्, भूतेष्टादिन एव पाक्षिकरवस्याऽरातिरेषः स्फुटम् ॥ ६ ॥
व्या०-हे जिनपते ! सांवत्सरिकादिवत् युगप्रधान श्रीकालिकाचार्यात्परतोऽर्वाक् क्रमेण भाद्रपदसितपञ्चम्यां चतुर्थ्यां च तद्वाचकसांवत्सरिकशब्दवत्, आदिशब्दात् क्रियाविशेषवाचका
२८