________________
द्वात्रिंशिका
चैकादश इमे-क्षुत्पिपासा-शीतोष्ण-दंश-चर्या-शय्या-वध-रोगतृणस्पर्श-मला इति । उक्तं च___"पंचेव आणुपुव्वी चरिआ सिज्जा वहे य रोगे अ। तणफास जल्लमेव य इक्कारस वेअणिज्जंमि"त्ति। तथा सम्भावितममताबुद्धिकल्पनया धर्मसाधनीभूतान्यपि रजोहरणमुखवस्त्रिकादीनि चतुर्दशोपकरणानि याजितवान् । तथा तदन्तर्गतं शरीरमपि न त्याजितवानित्येतावंदेव न, किन्तु प्रत्युत धर्मसाधनमिदं शरीरमिति बुद्ध्याऽन्नपानीयकमण्डलुसद्दरिकाद्यनेकोपचारैः पालयन् नग्नाटः परित्यक्तवस्त्रपात्रादिस्थाने वह्न यम्बुकुण्डिकादिस्वीकारेण प्रतिज्ञापर्वतप्रच्युतोऽपि वराको द्विधाराप्रतिबन्दीतरवारिहतो हतस्यापि हननमिति न्यायमापन्नो बोध्यः। प्रतिबन्दी यथा-यदि शरीरस्वीकारः, कथं न वस्त्रपात्रादेरपि, धर्मसाधनत्वेनोभयत्राविशेषात् ।
किञ्च-केवलं शरीरं न धर्मसाधनं भवितुमर्हति, सहकारिविकलस्य कारणस्य फलं प्रति वन्ध्यत्वेनाकारणत्वात् । एवमपि यदि वस्त्रपात्रादित्यागः, कथं न शरीरस्यापि ? । शरीरोपष्टम्भकधिया वह न्यम्बुकुण्डिकादिस्वीकारेऽपि सुतरां प्रतिबन्दी, सा तु सुबोधैव ।
किञ्च-सकलजगजन्तुहितहेतुत्वेन जिनोपदिष्टेभ्यो रजोहरणमुखवस्त्रिकाद्युपकरणेभ्यस्त्रस्तस्य नग्नाटस्य त्रसाद्यनेकजन्तूपघातकत्वे जिनपतिप्रतिषिद्धानां वह्न यम्बुकुण्डिकाछात्रतृणपटादीनामासेवने निर्भाग्यस्य जिजीविषोः पीयूषपानपरित्यागाद्वि