Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 78
________________ द्वात्रिंशिका पत्तेरत्यन्तमासमञ्जस्यं प्रसज्येत। दिग्मात्रदर्शनं यथा-तिलकाssचार्यकृताऽऽवश्यकवृत्त्याद्यङ्गीकारे साधुप्रतिष्ठोच्छेदः । तथा च प्राग् प्रदर्शिताऽऽचाराचरितप्रतिपादकग्रन्थानां निर्वाणकलिकाशत्रुञ्जयमाहात्म्य-श्रीमहावीरचरित्रप्रमुखाणां दत्ताञ्जलितैव स्यात् । तत्र साधूनामेव प्रतिष्ठाया दृष्टत्वात् । तथाऽऽञ्चलिककृताऽऽवश्यकदीपिका-शतपद्याद्यकीकारे श्राद्धानां रजोहरण-मुखपोतिकादिग्रहण-प्रतिक्रमण-द्वयाधिकसामायिककरणाद्युच्छेदापत्तिः। तथा च अनुयोगद्वारसूत्रवृत्तिचादीनामुच्छेदः प्रसज्येत । तत्र श्राद्धानां रजोहरणादिग्रहणस्योक्तत्वात्, तथा औष्ट्रिकग्रन्थस्वीकारे च स्त्रीजिनपूजा-मासकल्पादिव्युच्छेदः श्रीमहावीरषटकल्याणकप्ररूपणं श्रावणपर्युषणाकरणादि च प्रसज्येत । तथाच ज्ञातधर्मकथाङ्ग-श्रीस्थानाङग-श्रीहरिभद्रसूरिकृतयात्रापञ्चाशकनिशीथचूादीनामुच्छेदः। तत्र क्रमेण स्त्रीजिनपूजामासकल्पकरण-श्रीमहावीरपञ्चकल्याणक-भाद्रपदपर्युषणाकरणानामुक्तत्वात् । औष्ट्रिकग्रन्थास्तु श्रीकल्पसूत्रस्य सन्देह विषौषधिवृत्तिः विधिप्रपा उत्सूत्रपदोद्घाटनकुलं आचाराङ्गदीपिका सङ्घपट्टकसूत्रं तद्वृतिश्च गणधरसार्द्धशतकसूत्रवृत्ति-सन्देहदोलावली पौषधविधिप्रकरणं चेत्यादयो बोध्याः। ननु सङ्घपट्टकसूत्रं पौषधविधिप्रकरणं च खरतरमताऽऽकर्षकजिनदत्ताऽऽचार्यस्य गुरुणा जिनवल्लभेन कृतं, तत्कथमौष्ट्रिकसम्बन्धीति चेत्, उच्यते-जिनवल्लभस्य जमालिवदवस्थाद्वयसम्भवेन सङ्घबाह्यावस्थायां ये ग्रंथाः कृतास्ते उत्सूत्रभाषिकृतत्वेन नान्येषां सम्मताः, किन्तु तदपत्यस्य

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168