________________
द्वात्रिंशिका पत्तेरत्यन्तमासमञ्जस्यं प्रसज्येत। दिग्मात्रदर्शनं यथा-तिलकाssचार्यकृताऽऽवश्यकवृत्त्याद्यङ्गीकारे साधुप्रतिष्ठोच्छेदः । तथा च प्राग् प्रदर्शिताऽऽचाराचरितप्रतिपादकग्रन्थानां निर्वाणकलिकाशत्रुञ्जयमाहात्म्य-श्रीमहावीरचरित्रप्रमुखाणां दत्ताञ्जलितैव स्यात् । तत्र साधूनामेव प्रतिष्ठाया दृष्टत्वात् । तथाऽऽञ्चलिककृताऽऽवश्यकदीपिका-शतपद्याद्यकीकारे श्राद्धानां रजोहरण-मुखपोतिकादिग्रहण-प्रतिक्रमण-द्वयाधिकसामायिककरणाद्युच्छेदापत्तिः। तथा च अनुयोगद्वारसूत्रवृत्तिचादीनामुच्छेदः प्रसज्येत । तत्र श्राद्धानां रजोहरणादिग्रहणस्योक्तत्वात्, तथा औष्ट्रिकग्रन्थस्वीकारे च स्त्रीजिनपूजा-मासकल्पादिव्युच्छेदः श्रीमहावीरषटकल्याणकप्ररूपणं श्रावणपर्युषणाकरणादि च प्रसज्येत । तथाच ज्ञातधर्मकथाङ्ग-श्रीस्थानाङग-श्रीहरिभद्रसूरिकृतयात्रापञ्चाशकनिशीथचूादीनामुच्छेदः। तत्र क्रमेण स्त्रीजिनपूजामासकल्पकरण-श्रीमहावीरपञ्चकल्याणक-भाद्रपदपर्युषणाकरणानामुक्तत्वात् । औष्ट्रिकग्रन्थास्तु श्रीकल्पसूत्रस्य सन्देह विषौषधिवृत्तिः विधिप्रपा उत्सूत्रपदोद्घाटनकुलं आचाराङ्गदीपिका सङ्घपट्टकसूत्रं तद्वृतिश्च गणधरसार्द्धशतकसूत्रवृत्ति-सन्देहदोलावली पौषधविधिप्रकरणं चेत्यादयो बोध्याः। ननु सङ्घपट्टकसूत्रं पौषधविधिप्रकरणं च खरतरमताऽऽकर्षकजिनदत्ताऽऽचार्यस्य गुरुणा जिनवल्लभेन कृतं, तत्कथमौष्ट्रिकसम्बन्धीति चेत्, उच्यते-जिनवल्लभस्य जमालिवदवस्थाद्वयसम्भवेन सङ्घबाह्यावस्थायां ये ग्रंथाः कृतास्ते उत्सूत्रभाषिकृतत्वेन नान्येषां सम्मताः, किन्तु तदपत्यस्य