________________
श्रीमहावीरविज्ञप्तिजिनदत्ताचार्यस्यैव, अतस्तत्सम्बन्धिन एवोच्यन्त इति । तथा लुम्पाकस्य ग्रन्थकर्तृत्वाऽसामर्थेऽपि तत्कृतबालचेष्टितगीताभासाद्यंगीकारेऽपि श्रीजिनपतिप्रतिमादीनामप्युच्छेदापत्त्या नमस्कारादिप्रवचनमात्रस्याप्युच्छेदः प्रसज्येत । तत्र सर्वत्रापि श्रीजिनप्रतिमादीनामाराध्यत्वेनोपलम्भात् । ननु श्रीभगवत्यङ्गराजप्रश्नीयोपाङ्गादिषु जिनप्रतिमानामुपलम्भः सुलभः, परं नमस्कारादिप्रवचनमात्रेऽपि कथमिति चेत्, उच्यते-प्रवचनस्थं पदमात्रमप्युपक्रमादिभिश्चतुर्भिरनुयोगद्वाराख्येयम् । उक्तं च"चत्तारि अणुओगदारा पं० तं० उवक्कमो निक्खेवो अणुगमो नओ अ"त्ति श्री अनुयोगद्वारे । तत्रानुगमो द्विधा-सूत्रार्थो नियुक्त्यर्थश्च । तत्र नियुक्त्यर्थस्त्रिधा-निक्षेपनियुक्त्यर्थ उपोद्घातनियुक्त्यर्थः सूत्रस्पर्शिकनियुक्त्यर्थश्च । उत्तं च___“से किं तं अणुगमे २ दुविहे पं० तं० सुत्ताणुगमे निज्जुत्तिअणुगमे, से किं तं निज्जुतिअणुगमे ? नि० तिविहे पं० तं० निक्खेवनिज्जुत्ति-अणुगमे उबुग्घातनिज्जुत्तिअणुगमे सुत्तफासिअनिज्जुत्तिअणुगमे"ति अनुयोगद्वारे। तत्र तावदुपोद्घातनियुक्तिः प्रवचनमात्रस्यापि श्रीआवश्यकसम्बधिनी या साऽवसातव्या, तस्याः प्रवचनमात्रसाधारणत्वात् । तथा च नियुक्तिमिश्रितद्वितीयव्याख्याने थूभसयभाउआणं, चउवीसं चेव जिणहरे कासी।
सव्वजिणाणं पडिमा, वण्णपमाणेहिं निअएहि"ति गाथायामष्टापदे प्रासादप्रतिमाः कारिताः। तथा