________________
द्वात्रिंशिका
७१ "सुतत्थो खलु पढमो, बीओ निज्जुत्तिमीसिओ भणिओ। तइओ अ निरवसेसो, एस विही होइ अणुओगे"त्ति भगवा पञ्चविंशतितमशतकतृतीयोदशकवचनात् । तृतीयव्याख्याने प्रसङ्गाऽनुप्रसङ्गाऽऽगतनिरवशेषार्थकरणे भरतादिचरित्राणामुपादानं प्रसङगार्थग्रहणेनाऽनुप्रसङ्गार्थग्रहणेन च प्रतिष्ठाकल्पादीनामप्युपादानम् । तथा च प्रवचनस्थपदमात्रस्याऽप्यर्थकरणेन भरतेश्वरादिभिः प्रतिष्ठा कारिता, कृता च मन्त्रपूतचूर्णादिना श्रीनाभसूरिप्रभृतिसाधुभिरिति नमस्कारादेरपि सिद्धं जिनप्रतिमाप्रबोधकत्वमिति । एवं निक्षेपकरणेनापि स्थापनानिक्षेपे जिनप्रतिमोपलम्भः सुलभ एवेति दिग्मात्रदर्शनं । एवं पाशचन्द्रकृताऽऽचाराङ्गादिबालावबोधादिस्वीकारेऽप्याऽऽयोज्यं। किञ्च निह्नवकृतग्रन्थस्वीकारे निह्नवदीक्षितोऽपि त्वया साधुतया व्यवहर्तव्यः स्यात्तद्वत्तत्प्रतिष्ठितप्रतिमापि पूज्यत्वेन स्वीकृर्तव्या स्यात् । तथा च निह्नवाऽनिह्नवयोरभेदापत्त्या प्रवचनमात्रस्याऽप्युच्छेदापत्तिः। नाकस्यामुखायां (स्थाल्यां) भोक्तुमुपविष्टयोब्राह्मणचाण्डालयोविवेको भवितुमर्हति । लोकेऽपि कुलीनानां शीतलस्यापि चाण्डालकूपजलस्य परित्यागो दृष्टस्तथा शीतकालादावयत्नलब्धोऽपि श्मशानस्थोऽग्निरसेव्य एवेत्यादयो दृष्टान्ताः स्वधियाऽभ्यूह्या इत्यलंविस्तरेणेति काव्यार्थः ।। इति गतः कटुकः ।।
अथ क्रमागतं वन्ध्यापरपर्यायं सङ्करमतं दर्शयन् काव्यमाह