________________
श्रीमहावीरविज्ञप्तित्वबिम्बप्रतिबद्धशुद्धहृदयस्कन्धोणिकादण्डभृद्, दृष्ट्वापि प्रतिमाश्रवः श्रवणभृद् बिम्बारिवद् विश्वराट् ! । साङ्कर्य दधदेष वेषविषयं वैषम्यभाग्गुर्वनुक्रान्तेः क्रान्तिसमोपमः श्रुतिपथाऽनाकर्ण्यवैवण्यभाग्॥२६॥ __ व्या०-हे विश्वराट् ! जगदधिपते ! एष वन्ध्यनामा वरी श्रुतिपथाऽनाकर्ण्यवैवर्ण्यभाग वर्तते इत्यन्वयःसुगमः। तत्र श्रुतिपथः-कर्णस्तेनाऽनाकर्ण्यमश्राव्यं यद् वैवयं-मूर्खता तस्य भाग । एष किंलक्षणः ? क्रान्तिसमोपमः। क्रान्तिसमो-ज्योतिःशास्त्रप्रसिद्धो दोषविशेषस्तेनोपमा यस्य स क्रान्तिसमोपमः, कस्याः ? गुर्वनुक्रान्तेर्गुरुपरम्परायाः, यथा क्रान्तिसमो दोषो जन्मादौ बालकाद्युपघातकः, तथाऽयं वन्ध्यो गुरुक्रमोपघातकः । एतत्पदं कुपाक्षिकमात्रस्याऽप्याऽऽयोज्यं । सर्वेषामपि नग्नाट-राकारक्तादीनां नवीनमतप्रवर्तकत्वेन गुरुपरम्पराया अभावात् । पुनः किंलक्षणो ?, वैषम्यभाग, वैषम्यं वक्रता तस्य भाग अनन्तानुबन्धिमायावीत्यर्थः। किं कुर्वन् ?, दधत्, किं ? साङ्कयंपरस्परपरिहारैभिन्नव्यक्तिनिवेशिनोः धर्मयोरेकत्र समावेशलक्षणां सङ्करतां, किंलक्षणं साङकयं ?, वेषविषयं, वेषोनेपथ्यं तद्विषयो यस्य तत्तत् । तदेव विशेषणद्वारा स्पष्टयतिकिंलक्षणः 'त्वबिम्बेत्यादि । तव बिम्बेषु प्रतिबद्धं-जिनप्रतिमा जिनवदाराध्येत्येवंरूपेण न्यस्तं, शुद्धं-निर्मलं पापरहितं हृदयंमनो यैस्तेषां सुसाधूनामर्थात्तद्वेषान्तर्भूतौ यो स्कन्धोर्णिकादण्डौ