Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 121
________________ ११२ षोडशश्लोक्यां कस्यापि मोक्षाऽवाप्तिर्न स्यात् । किश्च-भो नग्नाट ! अबलानामम्बरपरिभोगः किं तीर्थकदुपदिष्टः त्वन्मताऽऽकर्षकशिवभूतिप्ररूपितो वा अशक्यपरित्यागकृतो वा ? । आद्य, तावदवश्यं वस्त्राऽऽवृतानामेव मुक्तिः सिद्धा। ततः 'प्रेक्षावतां हि प्रवृत्तिः स्वार्थकारुण्याभ्यां व्याप्ते'तिवचनात् परमप्रेक्षावत्त्वेन परमकारुण्यभाजो हि भगवन्तो नाऽबलानां मुक्त्युपघातकमुपदिशन्ति । तथात्वे ह्यास्तां तावदन्यद्, लोकनिन्द्या अपि भगवन्तो भवेयुः। यत उक्तं लौकिकैः-'बालस्त्रीव्रतिघातकाः स्युरधमाधीशाः श्वपाका इवे'त्यादि ।' द्वितीये तु ताभिः शिवभूतेः किमपराद्धं, येन पापात्मनाऽबलानां वस्त्रदानेन मुक्त्युपधातो विहितः। नह्यान्तरवैरमन्तरेण कश्चित्तथाविधोत्कृष्टार्थसम्पदाऽऽगम निवारको भवति । ननु शिवभूतिना वस्त्रदानं स्त्रीणां ब्रह्मचर्यादिरक्षार्थमेव विहितमिति चेत् । चिरं जीव। येनाऽऽयातोऽसि स्वयमेव मदुक्तमार्गेण । यतो यद् ब्रह्मचर्यादिपालनहेतुस्तत्संयमं प्रति हेतुरेवेत्यतः सिद्धं प्रत्युत निष्परिग्रहताहेतुर्वस्त्रपात्रादि तत्कुतस्तन्मोक्षोपघातकमिति त्वयापि सवस्त्रस्य मुक्तिर्व्यवस्थापिता। एवं तृतीयेऽप्यशक्यपरित्यागः किं शरीरावयववत्-सहोत्पन्नत्वात् कर्णवेधवच्छरीरसम्बद्धकृतविकारत्वाद्वा ?। उभयथापि प्रत्यक्षबाधः, बाल्यावस्थायामिवाऽन्यावस्थायामपि वलराहित्यस्य तजातीयानामध्यक्षसिद्धत्वात् अस्मादृशैरपि तथैव श्रयमाणत्वाच्च । एतेन सवस्त्रस्य केवलज्ञानाऽनुत्पत्ति वदन्नपि नग्नाटो निरस्तः । वस्त्रस्य केवलज्ञानाऽऽवरणत्वेन भवितुमशक्तेः । नह्यात्म

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168