Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 101
________________ १२ षोडशश्लोक्या विनाभाविमोक्षाऽवाप्तिकथनेन तत्त्वज्ञानमुक्तमेव, तश्च तत्त्वार्थश्रद्धानं जनयत्येव, क्षपणादयस्तु प्रवचनबाह्यास्तेषां च कुतो ममताबुद्धिरिति चेत् । मैवं, तत्त्वज्ञानात् खल्वाराध्यत्वेन जैनप्रवचनममताबुद्धरावश्यकत्वात् । अयं भावः-समभावजन्यं हि तत्त्वज्ञानं हेयोपादेयज्ञयवस्तुषु हानोपादानोपेक्षाबुद्धिजनकत्वेनैव सफलं, अन्यथा तत्त्वज्ञानस्यैवाऽभावात् कुतस्तत्त्वार्थ श्रद्धानम् ? । यतस्तत्त्वज्ञानं तावत्प्रमाणात्मकमेव भवति, तस्य च लक्षणं स्वपरव्यवसायात्मकमेव 'स्वपरव्यवसायि ज्ञानं प्रमाण' मितिवचनात् । तस्य च स्वरूपं हेयोपादेयज्ञेयवस्तुषु परिहारस्वीकारो रक्षाक्षमत्वमेव 'अभिमताऽनभिमतवस्तुस्वीकार-तिरस्कारक्षम हि प्रमाण मिति वचनात् । तथा च हेये-नरकादिपातहेतुत्वेनात्मनोऽनर्थकारित्वान्नेदं मदीयमित्यममत्वरूपेण परिहार्य धनधान्यमित्रपुत्रकलत्रकुप्रवचनाद्यनर्थे तावदममत्वरूपेण परिहारबुद्धिः सिद्धा, सिद्धा चोपादेयेऽनन्ताऽऽनन्दसम्पादकत्वेनात्मनोऽर्थकारित्वादाराध्यत्वेनेदं मदीयमिति ममतारूपेण स्वीकारार्ह जिनप्रवचनाद्यर्थे ममत्वरूपेण स्वीकारबुद्धिः, उपेक्षाबुद्धिश्चार्थानर्थकारित्वाभावात् तृणादिषु बोध्येत्येवंरूपेण तत्त्वज्ञानसिद्धौ सिद्धं जिनप्रवचने ममताबुद्धिरेव तत्त्वार्थश्रद्धानमिति। अत एव समभावः समता-तत्त्वबुभुत्सूनां तत्त्वज्ञानहेतुभूतरागद्वेषराहित्यरूपं माध्यस्थ्यं, तेन भावितस्तन्मयीभूत आत्मा येषां ते समभावभावितात्मान इत्यर्थवद्विशेषणविशिष्टा एव नग्नाटादयो मुक्तिभाजो भवन्तीति निगदितम् । एतद्विशे

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168