Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
१०८
षोडशश्लोक्यां
भावार्थस्त्वयम्-उत्सूत्रकन्दकुद्दालस्योपलक्षणत्वादन्यत्राऽपि निह्नवः प्रवचनबाह्य एव कथितः। तथाहि-'समुद्घातादि जिनाभिहितं वस्त्वन्यथा प्ररूपयन् प्रवचनबाह्यो भवति, यथा निह्नवा' इति तृतीयाङ्गटीकायां। तत्र चाऽऽदिकृच्छिवभूत्यादिनिह्नवो मानावरणीयादिकर्मपुद्गलैस्तन्निदानकर्मसन्तानपरम्परयाऽनन्तजन्ममरणादिहेतुकरधोनिमज्जनस्वभावत्वाद् गुरुः स्यात्। द्वितीयस्तु तदपेक्षयाऽतिशयेन गुरुर्गुरुतरः । तदपेक्षया कर्मपुद्गलैरतिभाराक्रान्तात्मा भवेदित्यर्थः। एतेन प्रथमतया उत्सूत्रप्रवर्तकस्यैव पातकं, न पुनः तत्पृष्ठिविलग्नानामिति प्रवचनानभिज्ञः कश्चिद्वदति। सोपि परास्तः। तस्य तदपेक्षया जनोत्सूत्रस्थैर्याच्छिवभूत्यादिष्वाग्रहाचोत्सूत्रपातकस्य द्विगुणत्वात् । उक्तं चोत्सूत्र० ____ 'ननु चन्द्रप्रभसूरेः प्रथममताऽऽकर्षकस्योत्सूत्रमस्तु, पाश्चात्यानां तच्छिष्याणां किं दूषणमित्याशक्य परिहरन्नाहप्राच्यैः कृतं ते नोत्सूत्रं, चेत् तत्पापं जनेऽपि न। .
प्रत्युतोयं जनोत्सूत्र-स्थैर्यात् प्राच्याऽऽग्रहाच तत् ॥१॥
अस्य वृत्तिः-अहो ! शिष्य! चेद् यदि प्राच्यैः-पूर्वपुरुषैश्चन्द्रप्रभसूर्यादिभिः कृतं-विहितमुत्सूत्रं ते-तव, न उत्सूत्रं भवेत्, किन्तु सूत्रमेव । ततः पापं जनेऽपि न भवति । समग्रपारदारिकताचौर्यादिपातकानां पूर्वपुरुषकृतत्वात् पाश्चात्यलोकस्यापि तत्तत्परदारगमनादिकं कुर्वतोऽपि पातकं न जायते । अत्युत्सूत्रमाह“प्रत्युत' तदुत्सूत्रमुग्रं-उद्दण्डं स्यात्, कस्मात् ? 'जनोत्सूत्रस्थैर्यात् प्राच्याऽऽग्रहाच्च' तेनोत्सूत्रकरणेन जनस्याऽप्युत्सूत्रकरणप्रवृत्तौ

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168