Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 110
________________ मध्यमोत्सूत्रिनिदर्शनम् १०१ नामा लेखकः 'लुकओ' इति रूढि:७, कटुकमतीयानां कटुकनामा गृहस्थः८, धर्मार्थिकापरनाम्नां वन्ध्यमतीयानां लुम्पाकमतान्निर्गतस्य नुन्नकस्य शिष्यो वन्ध्यनामा 'वीजउ' इति लोकरूढिः ६, पाशचन्द्रीयाणां नागपुरीयतपागच्छभ्रष्टः पाशचन्द्रो नामोपाध्यायः १०, एतेषामुत्पत्तिकालस्त्वेवं-विक्रमसंवत्सरात् एकोनचत्वारिंशदधिकैकशते १३६ दिगम्बरमतोत्पत्तिः १, एकोनषष्ट्यधिककादशशतेषु ११५६ गतेषु पूर्णिमीयकमतोत्पत्तिः २, चतुरधिकद्वादशशतेष्वतीतेषु १२०४खरतरमतोत्पत्तिः ३, चतुर्दशाधिकद्वा दशशतेषु १२१४ आञ्चलिकमतोत्पत्तिः ४, षट्त्रिंशदधिकद्वादशशतेषु १२३६ सार्द्धपूर्णिमीयकमतोत्पत्तिः ५, सार्द्धद्वादशशतेषु१२५०, त्रिस्तुतिकमतोत्पत्तिः ६, अष्टाधिकपञ्चदशशतेषु १५०८, लुम्पाकमतोत्पत्तिः ७, द्वाषष्ट्यधिकपञ्चदशशतेषु १५६२ कटुमतो त्पत्तिः ८, सप्तत्यधिकपञ्चदशशतेषु १५७० वन्ध्यमतोत्पत्तिः ६, द्विसप्तत्यधिकपञ्चदशशतेषु १५७२ पाशचन्द्रीयमतोत्पत्तिः १० ॥ एतदर्थसङ्ग्राहकं काव्यद्वयं त्वेवं । श्रीमद्विक्रमतोऽङ्करामरजनीशाब्देऽ १३६ भवद् बोटिको, भूति मशिवान्नवेषुगिरिशे ११५६ चन्द्रप्रभः पौणिमः २, वेदाभ्रारुण १२०४ औष्ट्रिको जिनपदादत्ताह्वयाद्योऽभवद् । विश्वार्के १२१४ नरसिंहतोऽञ्चलमतं राकाङ्कितान्निर्गतम् ।।१ सिंहाप्राक सुमतेः षडग्निकरणे १२३६ऽब्दे सार्द्धराकाङ्कितं । जातं त्रिस्तुतिकं च शीलगणतो व्योमेन्द्रियार्के १२५० कलौ। लुम्पाको वसुखेन्द्रियेन्दुषु १५०८, कटुञषष्टितिथ्य ब्दके १५६२।

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168