________________
मध्यमोत्सूत्रिनिदर्शनम्
१०१ नामा लेखकः 'लुकओ' इति रूढि:७, कटुकमतीयानां कटुकनामा गृहस्थः८, धर्मार्थिकापरनाम्नां वन्ध्यमतीयानां लुम्पाकमतान्निर्गतस्य नुन्नकस्य शिष्यो वन्ध्यनामा 'वीजउ' इति लोकरूढिः ६, पाशचन्द्रीयाणां नागपुरीयतपागच्छभ्रष्टः पाशचन्द्रो नामोपाध्यायः १०, एतेषामुत्पत्तिकालस्त्वेवं-विक्रमसंवत्सरात् एकोनचत्वारिंशदधिकैकशते १३६ दिगम्बरमतोत्पत्तिः १, एकोनषष्ट्यधिककादशशतेषु ११५६ गतेषु पूर्णिमीयकमतोत्पत्तिः २, चतुरधिकद्वादशशतेष्वतीतेषु १२०४खरतरमतोत्पत्तिः ३, चतुर्दशाधिकद्वा दशशतेषु १२१४ आञ्चलिकमतोत्पत्तिः ४, षट्त्रिंशदधिकद्वादशशतेषु १२३६ सार्द्धपूर्णिमीयकमतोत्पत्तिः ५, सार्द्धद्वादशशतेषु१२५०, त्रिस्तुतिकमतोत्पत्तिः ६, अष्टाधिकपञ्चदशशतेषु १५०८, लुम्पाकमतोत्पत्तिः ७, द्वाषष्ट्यधिकपञ्चदशशतेषु १५६२ कटुमतो त्पत्तिः ८, सप्तत्यधिकपञ्चदशशतेषु १५७० वन्ध्यमतोत्पत्तिः ६, द्विसप्तत्यधिकपञ्चदशशतेषु १५७२ पाशचन्द्रीयमतोत्पत्तिः १० ॥ एतदर्थसङ्ग्राहकं काव्यद्वयं त्वेवं ।
श्रीमद्विक्रमतोऽङ्करामरजनीशाब्देऽ १३६ भवद् बोटिको, भूति मशिवान्नवेषुगिरिशे ११५६ चन्द्रप्रभः पौणिमः २, वेदाभ्रारुण १२०४ औष्ट्रिको जिनपदादत्ताह्वयाद्योऽभवद् । विश्वार्के १२१४ नरसिंहतोऽञ्चलमतं राकाङ्कितान्निर्गतम् ।।१ सिंहाप्राक सुमतेः षडग्निकरणे १२३६ऽब्दे सार्द्धराकाङ्कितं । जातं त्रिस्तुतिकं च शीलगणतो व्योमेन्द्रियार्के १२५० कलौ। लुम्पाको वसुखेन्द्रियेन्दुषु १५०८, कटुञषष्टितिथ्य
ब्दके १५६२।