________________
१००
षोडशश्लोक्या तीर्थाभीरुस्तीर्थमेव त्यजेन्न पुनः स्वयमुदीरितमुत्सूत्रम् । द्वितीयस्तु तीर्थभीरुस्तीर्थताडित उत्सूत्रमेव त्यजेन्न पुनः तीर्थमिति । अथ स्थिरोत्सूत्रिणम् भेदत आहस्थिरोन्सूच्याऽऽदिकृच्चाऽन्यो, द्विधा निह्नवसज्ञितः । आदिकृच्छिवभूत्यादि-रन्यस्तन्मार्गमाश्रितः ॥६॥
व्या-स्थिरोत्सूत्री आदिकृदन्यश्चेति द्विधा स्यादित्यन्वयः। स्थिरोत्सूत्री-अवस्थितकोत्सूत्री, स चादि करोतीति आदिकृत्प्रथमतया प्रकाशकः प्रथमः। द्वितीयस्तु तदुक्तमार्गाऽऽसक्तः। स च द्विधाऽपि किम्भूतः ? निह्नवसञ्जितः-आगमभाषया निह्नवइति सञ्ज्ञा जाताऽस्येति निह्नवसञ्जितः । तत्रादिकृत् कः को वाऽन्यः? इति नामग्राहं दर्शयति-'आदिकृच्छिवभूत्यादिः' शिवभूतिदिगम्बरमताकर्षकः । स आदौ यस्य 'स्त्रीमुक्त्यवागि'त्यादिश्लोकयुग्मेन वक्ष्यमाणस्य पूर्णिमीयकादिमताऽऽकर्षकचन्द्रप्रभादिनवकस्य स, अन्यस्तदतिरिक्तः तन्मार्गाऽऽश्रितः-शरणीकृतशिवभूत्याधुक्तमार्ग इत्यर्थ इत्यक्षरार्थः। भावार्थस्त्वयं-क्षपणक-नग्नाटबोटिकाऽपरनाम्नां दिगम्बराणामादिकृत् स्थिरोत्सूत्री सहस्रमलाख्यापरनामा शिवभूतिः १ पूर्णिमीयकानां चन्द्रप्रभाऽऽचार्यः २, चामुण्डिकौष्ट्रिकापरनाम्नां खरतराणां जिनदत्ताऽऽचार्यः ३, आञ्चलिकानां नरसिंहोपाध्यायापरनामाऽऽर्यरक्षितः ४, सार्द्धपूर्णिमीयकानां सुमतिसिंहाचार्यः ५, त्रिस्तुतिकापरनाम्नामागमिकानां शीलगणो देवभद्रश्चेत्याचार्यद्वयं ६, लुम्पाकानां लुम्पाक