SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १०२. षोडशश्लोक्यां वन्ध्यः खाद्रितिथौ १५७० तथाच दशमः पाशोक्षिसप्ताक्षकौ १५७२ | ||२|| युग्मम् || दशानामप्यमीषां बहुषूत्सूत्रेष्वेकैकमुत्सूत्रमादाय विनेयजनानुग्रहार्थं दिग्मात्रेण पूर्वपक्षपूर्वक निराकरणमग्रे वक्ष्यते । अन्यस्तु तन्मार्गमाश्रितः तदुक्तमार्गनिरतः । स च सम्प्रति दशधाऽपि 'प्रत्यक्षसिद्ध एव, सम्प्रति दशानामप्यपत्यानां विद्यमानत्वादिति । अथाऽऽदिकृतः स्वरूपमाहतीर्थाssवासपरित्यागात्, तीर्थाऽऽभासप्रवर्त्तनात् । तीद्वेषोदयादेव भवेदाद्यः स्थिरात्मकः ॥७॥ व्या० - आद्यः स्थिरात्मकोऽवस्थितकोत्सूत्री तीव्रद्वेषोदयादेव भवेदित्यन्वयः । आद्यः आदिकृत् शिवभूत्यादिः स्थिरो निह्नवः, स प्रथमतयोत्सूत्रभाषी, कुतः स्यात् ?, तीव्रद्वेषोदयादेव-अनन्तानुबन्धिकषायोदयादेव । तीव्रद्वेषोदयाऽवगमस्तु तीर्थमेवाss - वासस्तस्य परित्यागात् । अतीर्थमपि तीर्थमिवाऽऽभासते यदित्यर्थादुत्सूत्रिसमुदायस्तस्य प्रवर्त्तनात् - व्यवस्थापनाच्चेति । चकारोऽध्याहार्य इत्यक्षरार्थः । , : भावार्थस्त्वयं यथा केवलसातोदयनिदानं रम्यं हम्यं परिहृत्य स्वयं निर्मीयाऽन्धकूपे पातं विधास्यामीति कृतप्रतिज्ञस्य तथा प्रतिज्ञासफलीकरणम् तीव्रकषायोदये सत्येव सम्भवति । तथा केवलाऽनन्ताऽऽनन्दोदयनिदानं तीर्थाssवासं परित्यज्य
SR No.022253
Book TitleDharmsagar Granth Sangraha
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages168
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy