________________
मध्यमोत्सूत्रिनिदर्शनम्
१०३ तीर्थाऽऽभासरूपं कूपं स्वयमेव विधाय तत्र पतनं तीव्रकषायो. दयिनामेवेति हेतुद्वयात्तीव्रकषायोदयावगमः। . अथ द्वितीयस्थिरस्य स्वरूपमाहअन्यस्तदुक्तमार्गानु-गामी च दृष्टिरागवान् । तत्त्वं विचिन्तयन्नन्तः-खिन्नोऽतत्त्वाऽऽश्रयी ध्रुवम् ॥१॥ व्या०-तदुक्तमार्गानुगामी-आदिकृत्शिवभूत्याद्युक्तमार्गाऽऽसक्तोऽन्यः-प्रथमापेक्षयाऽपरो-द्वितीय इत्यर्थः। स्थिरोत्सूत्री भवेदित्यन्वयः। तेनादिकृत्स्थिरोत्सूत्रिणा उक्तः-सूत्रितो यो मार्गःस्त्रीनिर्वाणनिषेधः चतुर्दशीपाक्षिकनिषेधः स्त्रीजिना निषेधःमुखवस्त्रिकानिषेधः जिनालयप्रदीपनिषेधः चतुर्थीस्तुतिनिषेधः जिनप्रतिमानिषेधः संप्रति साधुदर्शननिषेधः प्रागुक्तवक्ष्यमाणसङ्करनिषेधः साधूपदिष्टजिनपूजानिषेधश्चेत्यादिरूपस्तमनुगन्तुंशीलमस्येति तदुक्तमार्गानुगामी । किम्भूतो भवेत् ? अतत्त्वाऽऽश्रयी भवेत् । कथं ? ध्रु वं-निश्चितं, स चाऽतत्त्वाऽऽश्रयी कुतः ? इति विशेषणद्वारा हेतुमाह-यतः स तत्त्वं विचिन्तयन्नन्तःखिन्नः स्याद्-देव-गुरु-धर्माणां यथावस्थितस्वरूपं विचारयन् चेतसि खेदमापन्नो भवेत् । तत्त्वं विचारयन्नन्तःखिन्नोऽपि कुतः ? इति विशेषणद्वारा हेतुमाह-यतः स दृष्टिरागवान् । दृष्टौ-दर्शने लोकोत्तरमिथ्यात्वरूपे, रागः-स्वोपात्तं न त्यक्ष्यामीत्यादिरूपेण कदाग्रहो यस्य स, दृष्टिरागवानित्यक्षरार्थः। ___ भावार्थस्त्वयं-दृष्टिरागी च स्वोपात्ताऽतत्त्वाऽऽग्रही-अतत्त्वं तत्त्वबुद्ध्या स्वीकृत्येदं कथमपि न त्यक्ष्यामीति कदाग्रही, आभि