________________
१०४
षोडशश्लोक्यां
निवेशिक इति यावत् । स च तत्त्वमत्सर्येव स्यात् । अतत्त्वाऽऽग्रही तत्त्वान्वेषी चेति विरोधात् । स च तत्त्वविचारायोदीरितोऽपि तत्त्ववृत्त्या प्रत्युत्तरयितुमशक्तश्चेतस्येव खिन्नो भवति । असमर्थो ही प्रायो अन्तःखिन्नोऽप्युपशान्त इव बहिराभातीति अन्तरित्युपात्तं। तथाच 'यो यत् प्रतिपक्षः स तत्प्रतिपक्षानुकूल' इति न्यायात् तत्त्वे खिन्नस्याऽतत्त्वमेव शरणमिति । अत एव कामरागस्नेहरागापेक्षया दृष्टिरागो दुरपनेयः। उक्तं च'कामरागस्नेहरागा-वीषत्करनिवारिणौ।
दृष्टिरागस्तु पापीयान्, दुरुच्छेदः सतामपि ।।१।।इति । यद्यपि यः कश्चिल्लोकोत्तरभद्रकतया तत्त्वाऽतत्त्वे समदृशा पश्यन् मिथ्यात्वबन्धमाश्रित्य लौकिकलोकोत्तराभद्रकापेक्षया वरीयान् तथापि सोऽपि तत्त्वमतत्त्वसदृशमतत्त्वं च तत्त्वसदृशं पश्यन्नुभयोरपि यथावस्थितवस्तुस्वरूपापरिज्ञानात् तत्त्वमत्सर्येव । उक्तं च
तत्त्वातत्त्वे श्रयत्यस्मिन्नतत्त्वमुदितं ततः।
यत एष कुसन्दिग्ध-दृष्ट्या पश्यति ते समे ।।इति । व्याख्याचास्य प्रागुक्ता । ननु द्वितीयस्य स्थिरोत्सूत्रिणो हेतुरूपं विशेषणद्वयमुक्तं, तत् प्रथमस्यापि स्थिरोत्सूत्रिणः सम्भवति । यश्च प्रथमस्य तीनकषायोदयो निगदितः, स च द्वितीयस्यापीति कथमन्योऽन्यं व्यवच्छेदः ? इति चेत्। ऊच्यते-गौणमुख्यविवक्षयैवाव्यवच्छेदव्यवच्छेदाववसातव्यौ। अयं भावः-तीव्रकषायोदयादेवाऽऽदिकृत स्थिरोत्सूत्री स्ववचस्सु कदाग्रही भवत्यतोऽस्य तीव्रकषायोदयस्यैव मुख्यत्वं, दृष्टिरागस्य तु गौणत्वं । द्वितीयस्तु