________________
मध्यमोत्सूत्रिनिदर्शनम्
२०५
"
प्रायेण शिवभूतिचन्द्रप्रभादिषु दृष्टिरागादेव तीव्रकषायोदयी भवत्यतोऽस्य दृष्टिरागो मुख्यः, कषायोदयस्तु गौण इति । यत्तु द्वितीयस्य तत्त्वं विचिन्तयन्नन्तः खिन्नः' इति विशेषणमदायि, तत् प्रथमस्य न सम्भवत्येव तादृग्मार्गस्य स्वयमेव प्रवर्त्तकत्वेन तत्त्वविचारहेतोः सन्देहस्यैवाभावात् कुतस्तत्त्व विचार हेतुकः खेद इति बोध्यम् । ननु तत्त्वं विचिन्तयन्निति विशेषणभागस्तु प्रथममध्यस्थस्यैव सम्भवति, तस्यैव विचारस्य सम्भवात् नतु स्थिरात्मकस्य द्वितीयोत्सूत्रिणस्तस्य कुविचार एवाधिकारात् । उक्तं चत्सूत्र० ।
हेतुविचारे माध्यस्थ्यं, कुविचारे यथाऽऽग्रहः । तत्त्वज्ञाने विचारोऽपि यथा ज्योतिषसंविदि || १ ||
अस्य वृत्तिः - विचारे-युक्तौ कार्यरूपे माध्यस्थ्यं हेतुः कारणं, मध्यस्थ चित्तपरिणामस्यैव विचारोत्पादात् । यथाऽऽग्रहः कुविचारे हेतुः आग्रहप्रस्तचेतसः कुविचारोत्पादात् । तत्त्वज्ञाने विचारां हेतुः, विचारक्षोदक्षमस्य चेतसस्तत्त्वज्ञानोत्पादात् । विचारक्षोदक्षमं चाऽस्माकीनं चित्तं, ततोऽस्माकं तत्त्वज्ञानमुत्पन्नं, मतिश्रुतज्ञानयोः सम्प्रत्यपि वर्त्तमानत्वादित्यनुक्तमपि ज्ञेयम् । यथा ज्योतिषसंविदि - ज्योतिषज्ञाने विचारो हेतु:, सुविचारितस्यैव ज्योतिषस्य मिलनादिति चेत् । सत्यम्, द्वितीयो - सूत्रिणः कुविचारस्य फलेग्रहित्वापेक्षया कथितत्वात् । अयं भावःविचारं विदधानस्याप्याग्रहिणः कुविचार एवोदेति । यतः कदाअही प्रथममत मतिं निवेश्य तत्र युक्ति नेतुमिच्छति, सच
-