________________
१०६
षोडशश्लोक्यां
तत्त्वमागं न लभत एव, प्रत्युत युक्तिमलभमानः खेदमेवाऽवामोति । कदाग्रहरहितस्तु युक्त्या यथावद्वस्तुम्वरूपं विचार्य पश्चाद्युक्तिक्षमे मतिनिवेशं विदधीत । उक्तं च द्वितीयाङ्गटीकायां'आग्रही बत निनीषती युक्ति, तत्र यत्र मतिरस्य निविष्टा। पक्षपातरहितस्य तु युक्ति-यंत्र तत्र मतिरेति निवेश'।।१॥ मिति ।
अथ द्वयोः साधारणस्वरूपमाहद्विधाप्ययं स्थिरोत्सूत्रं, सूत्रयेत्तीर्थनिर्भयः ।
तीर्थेन ताडितोऽपि द्राक, तीर्थमेवाऽवहीलयेद् ॥६॥ व्याख्या-द्विधापि अयं अनन्तरोक्तः स्थिरोत्सूत्री द्विधापि-द्विप्रकारोऽपि स्थिरोत्सूत्रं सूत्रयेदित्यन्वयः। स्थिरोत्सूत्रमित्यत्रैवकारोऽध्याहार्यः। स्थिरोत्सूत्रमेव सूत्रयेद्-विरचयेत् सभास्थितः स्थिरोत्सूत्रमेव प्रकाशयेदित्यर्थः। स्थिरोत्सूत्रस्यैव प्रकाशकः कुतः ? इति विशेषणद्वारा हेतुमाह-यतः स किम्भूतः ? तीर्थनिर्भयः। तीर्थ-साधुसाध्वीश्रावकश्राविकासमुदायलक्षणं, 'चाउवण्णो संघो तित्थं तिवचनात्, तस्मान्निर्भयो-भयवर्जितः तीर्थाऽवज्ञापातकाऽभीरुस्तीर्थलज्जारहित इत्यर्थः। यो यस्मानिःशूकः स तस्यारुचिविषयां प्रवृत्तिं कुर्वाणो न शङ्कते इत्यतस्तीऑभीरुस्तीर्थाऽरुचि विषयमुत्सूत्रं भाषत एवेति सिद्धस्तीर्थनिर्भयः स्थिरोत्सूत्री। अथोत्सूत्री तावत्तीर्थेनाऽवश्यं शिक्षणीयोऽन्यथा तीर्थमप्यतीथं भवेदतस्तीर्थशिक्षितः स कीहक् स्यादित्युत्तरार्द्धन निर्दिशति-'तीर्थेने'त्यादि । त्वमित्थं मिथ्या मा प्रवर्तयेत्यादि